SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारीं शृण्वन्ति ते श्रावकाः, उक्तं च "संपत्तदंसणाई पयदियहं जइजना सुणेई य। सामायारिं परमं जो खलु तं सावगं बिंति।" मू.(८) सावगजनमहुअरिपरिखुडस्सजिनसूरतेयबुद्धस्स। संघपउमस्स भदं समणगणसहस्सपत्तस्स। व. श्रावकाश्च ते जनाश्च श्रावकजनाः त एव मधुकर्यः ताभिपरिवत्तस्य तस्य, तथा जिनसूर्यतेजोबुद्धस्य' जिन एव सकलजगत्प्रकाशकतया सूर्य इव-भास्कर इव जिनसूर्यस्तस्यतेजोविशिष्टसंवेदनप्रभवा धर्मदेशना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽन' इति कर्तर्यनप्रत्ययः श्राम्यन्ति-तपस्यन्ति, किमुक्तं भवति?-प्रव्रज्याऽऽरम्भदिवसादाराभ्य सकलसावद्ययोगविरता गुरूपदेशादाप्राणोपरमाद्यथशक्त्यनशनादि तपश्चरन्ति, उक्तं च "यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः॥" श्रमणानांगणः श्रमणगण: स एव सहस्त्र पत्राणां यस्य तत् श्रमणगणसहस्त्रपत्रं तस्य (श्रीसङ्गपग्रस्य भद्रं भवतु) || भूयोऽपि सङ्घस्यैव सोमतया चन्द्ररूपकेणस्तवमभिधित्सुराहमू.(९) तवसंजममयलंछन अकिरियराहुमुहदुद्धरिसनिच्च। जय संघचंद! निम्मलसम्मत्तविसुद्धजोण्हागा!॥ वृ. तपश्च संयमश्च तपःसंयम, समाहारो द्वन्द्वः, तपःसंयममेव मृगलाञ्छनं-मृगरूपं चिह्न यस्य तस्यामन्त्राणं हे तप: संयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिका: त एव जिनप्रवचनशशाङ्कनसनपरायणत्वाद्राहमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्यामन्त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य!, सङ्घश्चन्द्र इव सङ्कचन्द्रः तस्यामन्त्राणं हे सङ्कचन्द्र!, तथा निर्मलं-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा जयोत्स्ना यस्य स तथा, 'शेषाद्वे'ति कः प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक!, दीर्घत्वं प्रागिव प्राकृतलक्षणादवसेयम्, 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान्, सङ्घचन्द्रः, सदैव जयन् वर्तते तथाऽपीत्थं स्तोतुरभिधानं कुशलमनोवाकायप्रवृत्तिकारणमित्यदुष्टम्। पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाहमू.(१०) परतित्थियगहपहनासगस्स तवतेयदित्तलेसस्स। नाणुज्जोयस्स जए भदंदमसंघसरस्स।। वृ. परतीर्थिका:-कपिलकणभक्षाक्षपादसुगतादिभतावलम्बिनः, त एव ग्रहाः तेषां या प्रभाएकै कदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयति -अपनयतीति परतीर्थिकग्रहप्रभानाशक: तस्य, तथा तपस्येज एवदीप्ता- उज्ज्वलालेश्या-भास्वरता यस्य स तथा तस्यतपस्तेजोदीप्लेशस्य, तथा ज्ञानमेवोद्योतोवस्तुविषयः प्रकाशो यस्य स तथा तस्य ज्ञानोद्योतस्य, 'जगति' लोके 'भद्रं कल्याणं' भवत्विति शेषः, दमः- उपशमः तत्प्रधानः सङ्घः सूर्य इव सङ्घसूर्य: तस्य दमसङ्घसूर्यस्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy