________________
मूलं-५
४५
संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च-अरक: तुम्बारा: संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्बाराय नमः, सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या, उक्तं च-'छट्टिविहत्तीए भन्नइ चउत्थी,' तथा 'सम्मत्तपारियल्लस्स' सम्यक्त्वमेव पारियल्लंबाह्यपष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः, गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचकैरसमानमित्यर्थः, तस्य जयो भवतु 'सदा' सर्वकालं, सङ्घश्चक्रमिव सङ्घचक्रं तस्य।
सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराहमू.(६) भई सीलपडागूसियस्स तवनियमतुरयजुत्तस्स।
संघरहस्स भगवओ सज्झायसुनंदिघोसस्स।। वृ. भद्रं' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह-'शोलोच्छ्रितपताकस्य' शीलमेव-अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य स तथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वर्पिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य, ___ तथा स्वाध्यायः- पञ्चविधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एव सन्-शोभनो नन्दिघोषो-द्वादशविधतूर्यनिनादो यस्य सतथा तस्य, 'सज्झायसुनेमिधोसस्से'ति क्वचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्येति दृष्टव्यम्, इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थं, अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानं क्रियते, यथा ब्राह्मण आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं परिभावनीयम्।
सङ्घस्यैव लोकमध्यवर्त्तिनोऽपि लोकधर्मासंश्लेषतः पद्यरूपकेण स्तवं प्रतिपादयितुमाहमू. (७) कम्मरयजलोहविनिग्गयस्स सुयरयणदीहनालस्स।
- पंचमहव्वयथिरकन्नियस्स गुणकेसरालस्स।। वृ. कर्म-ज्ञानावरणाधष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कर्म रज एव जन्मकारणत्वाज्जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौधविनिर्गतः तस्य, इह पद्मं जलौधाद्विनिर्गतं सुप्रतीतं, जलौधस्योपरि तस्य व्यवस्थित्वात्, सङ्घस्तु कार्मरजोजलौधाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च अविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिग्गर्तः, अद्यापि संसारित्वात्, तथा श्रुतरत्रमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजो जलौधतः तद्बलाद्विनिर्गतेः, तथा पञ्च महाव्रतान्येव-प्राणातिपातादिविरमणलक्षणानि स्थिराहृढा कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः- उत्तरगुणा: तएव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसरा: ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मणिज्जह आलं इल्लं मणं तह य' इति प्राकृतलक्षणात् मत्वर्थे आलप्रत्ययः।। तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनामगारिणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org