________________
४४
-
नन्दी-चूलिकासूत्रं मू.(४) गुणभवणगहण सुयरयणभरिय दंसविसुद्धरत्थागा। .
संघनगर! भदं ते अखंडचारित्तपागारा ।। वृ.गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात्, ते चोत्तरगुणाः पिण्डविशुद्धादयो, यत उक्तम्
"पिंडस्स जा विसोही समिईओ भावना तवो दुविहो।
__ पडिमा अभिग्गाहावि य उत्तरगुण मो वियाणाहि॥" त एव भवनानि तैर्गहनं-गुपिलं प्रचुरत्वादुत्तरगुणानां निरुपमसुखहेतुत्वाद्रनानि श्रुतरत्नानि तैर्भूतं-पूरितं तस्यामन्त्रणं हे श्रुतरत्नभृत! तथा 'दर्शनविशुद्धरथ्याक'! इह दर्शनं-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच्च क्षायिकादिभेदात् त्रिधा, तद्यथा-क्षायिकं क्षायोपमिकमौपशमिकं च, उक्तं च
"सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं चे"ति, तत्र त्रिविधस्यापि दर्शनमोहनीयस्यक्षयेण-निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिक, उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशम: तेन निवृत्तमोपशमिकम्, आह-औपशमिकक्षायोपशमिकयोः कः प्रतिविशेष:?, उच्यते, क्षायोपशमिके तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्थि नत्वौपशमिके इति। दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशुद्धरथ्या यस्य तत्तथा, तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक! 'सेल्र्लोप: सम्बोधने हस्वो वे'ति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना(र्थत्वात् दीर्घनिर्देशो, यथा गोयमा इत्यत्र, सङ्घः-चातुर्वर्णः श्रमणा-- दिसङ्घातः स नगरमिव सङ्घनगरं व्याघ्रादिभिर्गौणैस्तदनुक्ता विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे सङ्घनगर! 'भद्रं' कल्याणं 'ते' तव भवत् अखण्डचारित्रप्रकार! चारित्रं-मूलगुणाः अखण्डम्-अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादौ हस्वः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार! दीर्घत्वं प्रागिव।। - भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाहमू.(५) संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स।
अप्पडिचक्कस्स जओ होउ सया संघचक्कस्स। वृ.संयमः-सप्तदश प्रकार: यदुक्तम्
"पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः।
दण्डवयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥" तपो द्विधा-बाह्यमाभ्यन्तरंच, तत्र बाह्यं षड्विधं, यदुक्तम्
"अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः।
कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम्॥१॥" आभ्यन्तरमपि षोढा, यत उक्तम्
- "प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः। स्वाध्याय इति तप: षट्प्रकारमाभ्यन्तरं भवति ।।२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org