SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ नन्दी-चूलिकासूत्रं उक्तमभिमानचिह्नन- "पडिहत्थमुद्धमायं अहिरे(य) इयं च जाण आउण्णो" तस्य, सङ्घमन्दगिरिपक्षे तु नन्दनं-सन्तोषः, तथाहि-तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविधिधामोपपध्यादिलब्धिसंकुलतया मनोहरं, तस्य सुरभिः शीलमेव गन्धः तेन व्याप्तस्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम्।। मू.(१४) जीवदयासुंदरकंदरुद्दरियमुनिवरमईदइनस्स। हेउसयधाउउपगलंतरयणदित्तोसहिगुहस्स। वृ.जीवदया एव सुन्दराणि स्वपरनिर्वृतिहेतुतया कन्दराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः तपस्वी'ति जीवदयासुन्दरकन्दराणि, तेषु ये उत्प्राबल्येन कर्मशत्रुजयु प्रति दपिता उद्दप्पिता मुनिवरा एव शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीर्णोव्याप्तस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि रत्नानि भवन्ति कनकादिधातवो दीप्ताश्चौषधयः, सङ्घमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेपास्वरूपेण भास्वरत्वात्, तथा प्रगलन्तिनिष्यन्दमानानि क्षायोपशमिकभावस्यन्दिवात्. श्रुतरत्रानि दीप्ताः-जाज्वल्यमाना ओषधयःआमौंपध्यादयो गुहासु-व्याख्यानशालारूपासु यस्य स तथा तस्य। मू.(१५) संवरवरजलपगलियउज्झरपविरायमाणाहारस्स। सावगजणपउरवंतमोसच्चंतकुहरस्स। वृ. संवर:-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढः उज्झर-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य। मू.(१६) विनयनयपवरमुनिवरफुरंतविज्जुज्जलंतसिहरस्स। विविहगणकप्परुक्खगफलभरकुसुमाउलवनस्स।। वृ. विनयेन नता विनयेनता ये प्रवरमुनिवराः त एव स्फुरन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिवलिन्ति-भासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीया: प्रावधनिका विशिष्टा आचार्यादयो द्रष्टवाः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात्, तथा त्रिविधा गुणा येषां ते विधिधगुणाः, विशेषान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पनत्वात् परमान्दरूपसुखहेतुधर्मफलदानाच्च कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात, स्वार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसुमानितैराकुलानिवनानि यस्य सतथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु गच्छाः। . मू.(१७) नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स। वंदामि विनयपणओ संघमहामंदरगिरिस्स। वृ.तथा-ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वररत्वं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy