________________
च
.
४०
नन्दी-चूलिकासूत्रं त्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूति:?, स्यादेतत्-पूर्वमेव विज्ञानं पाटवाधिष्ठितं, वासना तज्जनिता शक्तिः, उक्तदोषप्रसङ्गात्, तच्च पूर्व विज्ञानं किञ्चिदनन्तरं तथा तथा विशिष्टं ज्ञानं जनयति, किञ्चित् कालान्तरे, यथा जाग्रद्दशाभाविज्ञानं स्वप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, तथाहि-अनुभवाच्चिरकालातीतादपि स्मृतिरुदयमासादयन्ती दृश्यते, तदप्ययुक्तम्, तत्राप्युक्तदोपानतिक्रमात्, यद्धि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे वा विशिष्टं ज्ञानमुदयते? एवं हि तन्निर्हेतुकमेव परमार्थतो भवेत्, अथ पूर्वं विज्ञानं प्रतीत्य तदुत्पद्यते तत्कथं तन्निर्हेतुकं?, क्रीडनशीलो देवानांप्रियो यदेवभेवास्मान पुनः पुनरागासयति, ननु यदा यत्पूर्वं विज्ञानं न तदा तद्विशिष्टं ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तन्त्र निर्हेतुकम्?, यदप्युक्तम्-'किञ्चित्कालान्तरे' इति, तदपि न्यायबाह्यं, चिरविनष्टस्य कार्यकरणायोगाद, अन्यथा चिरविनष्टेऽपि शिखिनि केकायितं भवेत्, ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमासादयन्ती दृश्यते, न च दृष्टेऽनुपपन्नता, तद्वत् ज्ञानान्तरमपि भविष्यति को दोषः?, उच्यते, दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मतेन नोपपद्यते, तत्राप्युक्तदोषप्रसङ्गात्, ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथाकथञ्चित्परिकल्पनामधिसहते, किन्तु प्रमाणोपपत्रं, तत्र यथा भवत्परिकल्पना तथा नकिमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम, तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात्, तथाहि___ अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि वासनाऽपरपर्याय: संस्कार आधीयते, सच यावदवतिष्ठते तावत्तादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुबन्धातुरेकस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगदुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते, तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, तस्या मिथ्यारूपत्वात्। ___ यदपिच उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्रस्नेह: प्रवर्तत इति' तत्राचीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः, तथाहि-यत एवात्मनिस्नेह: तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताग्रभेदकरपत्रशिर: पाटनशूलारोपकुम्भिपाकसिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारंदुःखमेव निरन्तरं, नाक्षिनिमीलनमात्रमपि तत्र सुखं, तिर्यग्गतावपि अंकुशकशाभिधातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमेनक दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात्, मात्सर्यमात्मनि तद्धिहीने विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गनावियोगजमनिष्टजन्मसन्तापं वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखं, यदपि च___ मनुष्यगतौ देवगतौ वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिव पर्यन्तदारुणत्वादतीव विदुषामनुपादेयम्, तन्न संसृतौ कायि विदुषामास्थोपनिबन्धो युक्तः यत्तु निःश्रेयसपदमधिरूढस्य सुखं तत्परमानन्दरूपमपर्यवसानं च, तच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org