________________
मूलं-३ कक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो न वेत्ति, यच्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीर्घकालिकोऽनुस्यूतैकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवहारो घटते?,
अपि च-भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यवस्थाऽपि नोपपद्यते, अर्थाभावे ज्ञानस्योत्पादाद् अर्थकार्यतया तस्याभ्युपगमात्, 'नाकारणं विषय' इति वचनात्, न च वाच्यं तत उत्पन्नमिति तस्य परिच्छेदकम्, इन्द्रियस्याप्यर्थवत्परिच्छेदप्रसक्तः, ततोऽप्युत्पादात्, तदभावेऽभावात्, नापि सारूप्यात्, तस्यापि सर्वदेशविकल्पाभ्यामयोगात्, तथाहि-न सर्वात्मनाऽर्थेन सह सारूप्यं, सर्वात्मनाऽर्थेन सह सारूप्ये ज्ञानस्य जडरूयताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्यायोगात्, नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात्, सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततः प्रमेयत्वादिना सारूप्यसम्भवात्, आह च भवदाचार्योऽपि धर्मकीर्तिआननयप्रस्थाने
"सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत् ।
साम्ये केनचिदंशेन, सर्वं सर्वस्य वेदनम्।।" नच सारूप्यादर्थपरिच्छेदव्यवस्थितावर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात्, ततो योऽयं प्रतिप्राणि प्रसिद्धः सकलैरपोन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच्च गुरूपदेशश्रवणं शास्त्रनिरीक्षणं वा यद्वशात्तत्त्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते, स्यादेतत्- परमार्थत एतदेव, तथाहि- न ज्ञानं कस्यचित् परिच्छेदकम्, उक्तनीत्या ग्राहकत्वायोगात्, नापि तत्कस्यचित्परिच्छेद्यं, तत्रापि ग्राह्यग्राहकत्वायोगात्, ततो ग्राह्यग्राहकाकातिरिक्तं ज्ञानमेव केवलं स्वसंविदितरूपत्वात् स्वयं प्रकाशते, तेनाद्वैतमेव तत्त्वं, यस्तु तथार्थनिश्चयादिको व्यवहार: सोऽनादिकालसंलोनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययक्तम्, वासनाया अपि विचार्यामाणाया अघटमानत्वात्, तथाहि
सावासना असती सती वा?, न तावदसती, असतः खरविषाणास्येवसकलोपाख्याविकलतया तथा तथाऽर्थप्रतिभासहेतुत्वायोगाद्, अथसती तर्हि सा ज्ञानाद् व्यत्यरेक्षीत् न वा?, व्यत्यरेक्षीच्चेदद्वैतहानिः, द्वयस्याभ्युपगमाद, अपि च-सा ज्ञाना व्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपावा?, न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात्, स्वभावभेदेन विना भिन्नभिन्नार्थक्रियाकरणविरोधात्, अथानेका तहि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहिसावासना ज्ञानाद् व्यतिरिक्ता अनेकरूपाच, अर्थोऽप्येवंरूप एवेति, अथाव्यतिरिक्ता साऽपि च पूर्वविज्ञानजनिता विशिष्टज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः- "वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः" एवं तर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽनेका वासना: सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात्, तासांच ज्ञानक्षणादव्यतिरेकादेकस्याः प्रबोधे सर्वासामपि प्रबोधः प्राप्नोति, अन्यथाऽव्यतिरेकायोगात्, ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः, सचायुक्तः, प्रत्यक्षबाधितत्वात्।
अन्यच्च-ज्ञाने विनश्यति तदव्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, ततः कथं तत्सामर्थ्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org