________________
४१
मूलं-३ प्रायो यक्तिलेशन प्रागवोपदर्शितम, आगमतो वाऽनुसतव्यम्, आगमप्रमाणबलाद्धि सकलमपि परलोकदिस्वरूपं यथावदवगम्यते, नान्यतः, तेन यदुच्यते प्रज्ञाकरगुप्तेन-- 'दीर्घकालसुखादृष्टाविच्छा तत्र कथं भवेदिति, तदपास्तमवसेयम्, आगमतो दीर्घकालसुखमय दर्शनात्, न चागमस्य न प्रामाण्यं, तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तेः, उपायान्तराभावात्, तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्रागमे सर्वात्मना निषण्णामानसः संसाराद्विरक्तो यद्यत्संसारहेतुः तत्तत्परिजिहीपुररक्तद्विष्टः सर्वकर्मनिर्मूलनाय प्रकर्षेण यतते, तस्य चैवं प्रयतमानस्य कालक्रमेण विशिष्टकालादिसामग्रीसम्प्राप्तौ प्रतनुभूतकर्मणः सकलमोहविकारप्रादुर्भावविनिवृत्तेरणिमाद्यैश्वर्यलब्धावपिनौत्सुक्यमुपजायते, ___ अत एव च तस्य मोक्षेऽपि न स्पृहाऽभिष्वङ्गापरपर्याया, तस्या अपि मोहविकारत्वात्, केवलं सा संसाराद्विरक्तिहेतः स्वयमपि च परम्परानिरनुबन्धिनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तहि तदर्थं प्रवृत्त्युपपत्ति:?, न, लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय प्रवृत्तिदर्शनात्, तथाहि-दृश्यन्ते केचित् गम्भीराशया अभिष्वङ्गात्मिकां स्पृहामन्तरेणापि यथाकालं भोजनाद्यनुतिष्ठन्तः, तथाविधीत्सुक्यलाम्पट्यद्यदर्शनाद्, अपि चयथा न मोक्षे स्पृहा तथा न संसारेऽपि, संसारादत्यन्तं विरक्तत्वात्, तत: सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पहाव्यतिरेकेणापि न मुक्तिभाजः?, तदेवं सर्वत्र स्पृहारहितस्य सूत्रोक्तनीत्वा ज्ञानादिषु यतमानस्य भावनाप्रकर्षे सत्यशेषारागादिकर्मपरिक्षयतो भवति मुक्तिः , एतेन यदुक्तम्-तत्स्नेहवशाच्च तत्सुखेषु परितर्षवान् भवती'त्यादि तदपि निर्विषयमवगन्तव्यम्, उक्तनीत्या तत्त्ववेदिनः परितर्षाद्यभावादिति स्थितं । साङ्खयाः पुनराहुःप्रकृतिपुरुषान्तरपरिज्ञानान्मुक्तिः , तथाहि
"शुद्धचैतन्यरूपोऽयं, पुरुषः परमार्थतः।
प्रकृत्यन्तरमज्ञात्वा, मोहात्संसारमाश्रितः।।" ततः प्रकृते सुखादिस्वभावाया यावत् न विवेकेन ग्रहणं तावत्र मुक्तिः, केवलज्ञानोदये तु मुक्तिः. तदप्यसद्, आत्मा ह्येकान्तनित्यः, सुखादयस्तूत्पादव्ययधर्माणः, ततो विरुद्धधर्मसंसर्गादात्मनः प्रकृतेर्भेदः प्रतीत एव, किं न मुक्तिः ?, अथैतदेव संसारी न पर्यालोचयति ततो न मुक्तिः, यद्येवं तर्हि सर्वदाऽप्यमुक्तिरेव, प्राप्तविवेकाध्यवसायस्यासम्भवात्, तथाहियावत्संसारी तावन्न विवेकपरिभावनं, अथचविवेकपरिभावने संसारित्वव्यपगमः, ततो विवेकाध्यवसायासम्भवात् न कदाचिदपि संसाराद्विप्रमुक्तिः, अपिच-सृष्टेरपि प्रागात्मा केवल इष्यते, ततस्तस्य कथं संसार:?, कथं वा मुक्तस्य सतो न भूयोऽपि?, अथ सृष्टेः, प्रागात्मनो दिदृक्षा ततो दिदृक्षावशात्प्रधानेन सहकतामात्मनि पश्यत: संसार:, मुक्तिस्तु प्रकृतेर्दुष्टतामवधार्य प्रकृतेविरागतो भवति, ततो न पुन: प्रकृतिविषया दिदृक्षेति न भूयः संसार:, तदप्ययुक्तम्, स्वकृतान्तविरोधात्, तथाहि दिदृक्षा नाम द्रष्टुमभिलाषः, स च पूर्वदृष्टेष्वर्थेषु तथास्मरणतो भवति, न च प्रकृतिः पूर्वं कदाचनापि दृष्टा, तत्कथं तद्विषयौ स्मरणाभिलाषौ ?, अपि च- स्मरणाभिलाषौ प्रकृतिविकारत्वात् प्रकृतेर्भाविनी, स्मरणाभिलाषाभ्यां च प्रकृत्यनुगम इत्यन्योऽन्याश्रयः,
"अभिलापस्मरणयोः, प्रकृतेरेव वृत्तितः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org