________________
मूलं-३ विकार: तद्धेतुक इति वक्तुं शक्यम्, नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्थान्यथाभवनं कर्महेतुकमेष्टव्यम्, तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तर्गडुना तद्धेतुतया कफादिपरिणतिविशेषाभ्युपगमेन?।
किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि यथा यथा रागादयः सेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेषेतदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्रतिपत्तव्यम्। अन्यच्चयदि कफहेतुको राग: स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत्, पित्तप्रकर्षे तापप्रकर्षवत्, न च भवति तदुत्कर्पोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्, अथपक्षान्तरकगृह्णीथा यदुत नकफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि-कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात्, न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तु शक्यम्। ___ अपि च एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते। स्यादेतद्-अलंचसूर्या, तत्त्वं निर्वच्मि-शुक्रोपचयहेतुको रागा नान्यहेतुक इति तदपि न युक्तम्, एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्याभप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च-यदिशुक्रस्य रागहेतुता तर्हि तस्य सर्वस्त्रीषु साधारणत्वाकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोध्येत-रूपस्यापि कारणत्वाद्रूपातिशयलुब्धः तस्यामेवरूपवत्यामभिरज्यते, नयोषिदन्तरे,
__ "रूपातिशयपाशेन, विवशीकृतमानसाः ।
स्वां योषितं परित्यज्य, रमन्ते योषिदन्तरे।।" तदपि न मनोरम, रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचारविशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचाराऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि व्यभिचारे, द्वयेनापि विमुक्तायां कचिद्रागदर्शनात्, तस्मादभ्यासजनितोपचयपरिपाकं कम्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागादयः।
एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां धर्मा एते रागादयः, तथाहि-पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि निराकृतमवसेयं, व्यभिचारात्, तथाहि-यस्यामेवावस्थायां रागः सम्मत: तस्यामेवावस्थायां द्वेषो मोहोऽपिच दृश्यते, तत एतदपि यत्किञ्चित्, तस्मात् कर्महेतुका रागादयस्तत्कर्मनिवृत्तौ निवर्तन्ते, प्रयोगश्चात्र-ये सहकारिसम्पाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वह्निवृद्धौ, भावनोपधानादपकर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूस्वभावबोधादिव्यवच्छेदार्थं, यदपिच प्रागुपन्यस्तंप्रमाणं-यदनादिमत्न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात्, प्रागभावेन व्यभिचारात्, तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org