________________
३४
नन्दी-चूलिकासूत्रं विपाकोदयसम्पादितासत्ताकाः,
तत: कर्मणो निर्मूलापगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः तथापि कर्मनिवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, न हि दहननिवृत्तौ तत्कृता काष्ठेऽङ्गारता निवर्तते, तदसत्, यत इह किञ्चित् कचित्रिवत्यै विकारामापादयति, यथाऽग्निः सुवर्णे द्रवतां, तथाहिअग्निनिवृत्तौ तत्कृता सुवर्णे द्रवता निवर्तते, किञ्चित्पुन: कचिदनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते, कर्म चात्मनि निवर्त्यविकारारम्भकं, यदि पुनरनिवर्त्यविकारारम्भकं भवेत्तहि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निा श्यामतामात्रमपि काठकृतमग्निनिवृत्तौ, ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं अज्ञत्वंशिरोवेदनादितत्सर्वकालं तथैवावतिष्ठेत, नचैतदृश्यते, तस्मानिवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः । __ अत्राहु-बार्हस्पत्या-नैते रागादयो लोभादिकर्मविपाकोदयनिबन्धनाः, किन्तु कफादिप्रकृतिहेतुका: तथाहि-कफहेतुको राग: पित्तहेतुको द्वेषो वातहेतुकश्च मोहः, कफादयश्च सदैव संनिहिताः, शरीरस्य तदात्मकत्वात्, ततो न वीतरागत्वसम्भवः, तदयुक्तम्, रागादीनां कफादिहेतुकत्वायोगात्, तथाहि-स तद्धेतुको यो यं नव्यभिचरति, यथा धूमोऽग्निम्, अन्यथा प्रतिनियतकार्यकारणभावव्यवस्थानुपपत्तेः,नचरागादयः कफादीन्न व्यभिचरन्ति, व्यभिचारदर्शनात्, तथाहि-वातप्रकृतेरपि दृश्यते रागद्वेषौ कफप्रकृतेरपि द्वेषमोहौ पित्तप्रकृतेरपि मोहरागो, ततः कथं रागादय: कफादिहेतुका:?, अथ मन्येथाः-एकैकापि प्रकृतिः सर्वेषामपि दोषाणां पृथक् पृथग्जनिका तेनायमदोष इति, तदयुक्तम्, एवं सति सर्वेषामपि जन्तूनां समरागादिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकत्तमया कयाचित्प्रकृत्या भवितव्यम्, सा चाविशेषेण रागदिदोषाणामुत्पादिकेति सर्वेषामपि समानारागदिताप्रसक्तिः, अथास्ति प्रतिप्राणी पृथक् पृथगवान्तर: कफादीनां परिणतिविशेषः तेन न सर्वेषां समरागादिताप्रसङ्गः, तदपि न साधीयो, विकल्पयुगलानतिकमात्, तथाहि
सोऽप्यवान्तर: कफादीनां परिणतिविशेषः सर्वेषामपि रागादीनामुत्पादक आहोस्विदेकतमस्यैव कस्यचित्त?, तत्र यद्याद्यः पक्षस्तर्हि यावत् स परिणतिविशेषस्तावदेककालं सर्वेषामपि रागादीनामुत्पादप्रसङ्गः, न चैककालमुत्पद्यमाना रागादयः संवेद्यन्ते, क्रमेण तेषां संवेदनात्, न खलु रागाध्यवसायकाले द्वेषाध्यवसायो मोहाध्यवसायो वा संवेद्यते, अथ द्वितीयपक्षः तत्रापि यावत् स कफादि परिणतिविशेषः तावदेक एव कश्चिद्दोषः प्राप्नोति, अथ च तदवस्थ एव कफादिपरिणतिविशेषे सर्वेऽपि दोषा: क्रमेण परावृत्त्य परावृत्त्योपजायमाना उपलभ्यन्ते, अथादृश्यमान एव केवलकार्यविशेषदर्शनोन्नीयमानसत्ताकः तदा तदा तत्तद्रागादिदोषहेतुः कफादिपरिणतिविशेषो जायते तेन न पूर्वोक्तदोषावकाशः, ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपिपरिकल्प्यते तर्हिकम्मैव किं नाभ्युपगम्यते?, एवं हिलोकशास्त्रमार्गोऽप्याराधितो भवति, अपि च-स कफादिपरिणतिविशेषः कुतः तदा तदाऽन्योऽन्यरूपेणोपजायते इति वक्तव्यम्?, देहादिति चेत् ननु तदवस्थेऽपि देहे भवद्भिः , कार्यविशेषदर्शनतः तस्यान्यथाऽन्यथा भवनमिष्यते, तत्कथं तदं देहनिमित्तं, न हि यदविशेषेऽपि यद्रिक्रियते स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org