________________
मूलं-३ तदपि सुखमभिलपणीयं भवतः तर्हि पानशोण्डानां यत् मद्यपानप्रभवं यच्च ग शूकराणां पुरीपभक्षणसमुत्थं यच्च रक्षसां मानुपमांसाभ्यवहारसम्भवंन्यच्च दासस्य सतः स्वाभिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशौण्डाद्यप्यभिलषणीयम्, अपि च-नरकदुःखमप्राप्तस्य न तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुःखमप्यभिलपणीयं, अथविशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मात्तदेवाभिलषणीयं न शेषमिति। ___ योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षावतामुपादेयतामनुते. तथाहि-सकलमपि कर्मजालं मिथ्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततः सकलकर्मनिर्मूलनाय सम्यग्दर्शनाद्यभ्यास एव घटते, नान्यत्, तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रमं प्रत्यक्षानुमान संवाददर्शनात् मोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञो न सुगतादिरिति स्थितम्। __ तथा 'भद्रं जिनस्य वीरस्य' जयति रागादिशत्रुगणमिति जिनः, औणादिको नक्प्रत्ययः, तस्य भद्रं भवतु, अनेनापायातिशयमाह, अपायो-विश्लेषः तस्यातिशयः-प्रकर्षभावोऽपायातिशयो, रागादिभिः सहात्यन्तिको वियोग इत्यर्थः, ननुरागादिभिः सहात्यन्तिको वियोगोऽसम्भवी, प्रमाणबाधनात्, तच्च प्रमाणमिदं-यदनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशं अनादिमन्तश्च रागादय इति, किञ्च-रागादयो धर्माः, ते च धर्मिणो भिन्ना अभिन्ना वा?, यदि भिन्नाः तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वाद, विवक्षितपुरुषवत्, अथाभिन्नाः तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वीतरागत्वं?, तस्यैवाभावादिति, अत्रोच्यते, इहयद्यपि रागादयो दोषा जन्तोरनादिमन्त; तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां रागादीना प्रतिपक्षभावनातः प्रतिक्षणभपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालदिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यद्यपि प्रतिपक्षभावनात: दृष्टस्तथापितेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसेयम्?, उच्यते, अन्यत्र तथाविधप्रतिबन्धग्रहणात्, तथाहि___ शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वर्मन्दतायां मन्दा उपलब्धाः उत्कर्षे च निरन्वयविनाशधर्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्यमनदतादर्शनाद् बाधकोत्कर्षेऽवश्यं बाध्यस्य निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दताऽपि न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं, ज्ञानावरणीयकर्ममन्दातायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम्, द्विविधं हि बाध्यंसहभूस्वभावभूतं सहकारिसम्पाद्यस्वभावभूतंच, तत्र यत्सहभूस्वभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मन: सहभूखभावभूतम्, आत्मा च परिणामिनित्यः ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्दिये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिककर्म| 30/3]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org