________________
नन्दी-चूलिकासूत्रं तदेतदर्हत्यपि समानं, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात्, उक्तं च
"जैनेश्वरे हि वचसि, प्रमासंवाद इष्यते।
प्रमाणवाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ।।" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात. समानकक्षतायां हि बाध्यवाधकभावः, तथा चोक्तम् -
"समानविपया यस्माद्बाध्यबाधकसंस्थितिः ।
अतीन्द्रियेच संसारिप्रमाणं न प्रवर्तते ॥" । ततः कथमुच्यते -अर्हतो वचसि प्रमासंवाददर्शन प्रमाणबाध्यत्वमन्येषामिति?, तदपि न सम्यक्, यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवतेत, अतीन्द्रियार्थं वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः ?, ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विपयं साधकं प्रमाणमच्यते, विपरीतंत बाधकं, अस्तित भगवदक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि-घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपि च परमानन्दरूपशाश्वतिकसौख्यात्मक उक्तः, तत: सोऽपि युक्त्वासङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्ष: संसारेजन्मजरामरणादिदुःखहेतवो रागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्यापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते, ततः तत्सौख्यं शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तर्हि न तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्बनकराधातादिप्रभवं रागनिबन्धनं सुखं नापि ट्रेपनिबन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवार्गसहवाससम्भवं च, ततः कथमिवस मोक्षो जन्मिनामुपादेयो भवति?,
"वीतरागस्य न सुखं, योषिदालिङ्गनादिजम्। वीतद्वेषम् च कुतः, शत्रुसेनाविमईजम्?॥"
वीतमोहस्य न सुखमात्मीयाभिनिवेशजम्। - ततः किं तादृशा तेन, कृत्यं मोक्षेण जन्मिनाम्?॥ अपिच-क्षुदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाहारभोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति न कार्यं तेन, तदेतदतीवासमीचीनं, यतो यद्यपि रागादयः, प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणाम - परम्परयाऽनन्तदुःखसहनरकादिदुःखसम्पातहेतवः, ततः पर्यन्तदारुणतया विषानभोजनससमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति, प्रेक्षावन्तो हि बहुदु:खमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते, यस्तु स्तोकसुखनिमित्तं बहुदुःखमाद्रियते सप्रेक्षावानेव न भवति, किन्तु कुबुद्धि:, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्गसुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेय, न रागादिप्रभवमिति, यदि पुनर्यदपि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only