________________
मूलं-३ देशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयःएतावदेव जगति वस्त्विति, यदप्युक्तम्-'अशुच्यादिरसास्वादप्रसङ्ग' इति, तदापि दुरन्तदीर्घपापोदयविम्भितम्, अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि याहगभूतोऽशुच्यादिरसो येषां च प्राणिनां यादृग्भूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः?, अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक्, सम्यक्, चेत् यथास्वरूपं वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः, उक्तंच
"तटस्थत्वेन वेद्यत्वे, तत्त्वेनाऽवेदनं भवेत्।
तदात्मना तु वेद्यत्वेऽशुच्यास्वादः प्रसज्यते।।" तदसत्, भवान् हि सका करणाधीनज्ञान: ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमास्वादत एव जानाति, भगवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्यास्वादमन्तरेणैवरसं यथावस्थितंतटस्थतया सम्यग वेत्तीति न कश्चिदोषः।
एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात्, यदप्युक्तं-'कालतोऽनादिनन्तः संसार इत्यादि तदप्यसम्यग्, युगपत्सर्व्ववेदनाद्, नच युगपद्सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि-सम्यजिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्तिकायादिस्वरूपस्य सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो
"यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते।
मनस्येकक्षणेनैव, तथाऽनन्तादिवेदनम्॥" यदप्युच्यते-'कथमतीतंभावि वा वेत्ति?, विनष्टानुत्पन्नत्वेन तयोरभावादि, ति, तदपि न सम्यक्, यतो यद्यपीदानिन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवतिष्ट यथा च भावी (वय॑ति) वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामश्नुवते तथा तीर्थान्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि असत्यतामश्नुवीरन्, अथ तीर्थान्तरीयसम्मतीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततोन ते सत्याः, तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्,
"अतीन्द्रियानंसेवद्यान, पश्यन्त्यारेण चक्षुषा।
ये भावान् वचनं तेषां, नानुमानेन बाध्यते॥" अथ सम्भवति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचाला: तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः कीर्तिपूजा-- दिलब्युकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तस्वरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org