________________
नन्दी-चूलिकासूत्रं रत्नत्रयसम्पत्समन्वितो वेदतिव्यः, इतरस्य तदनुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूपत्वात आह च- "नाणी नवंमि निरओचारिती भावणाए जोगोति" सा च रागादिदोषनिदानस्वरूपविषयफलगोचरा यथाऽऽगममेवमवसेया--
"जं कुच्छियानुयोगो पयइविसुद्धस्स होइ जीवस्स।
एएसि मोनियाण बुहाण न य सुंदरं एय॥१॥ रूवंपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो उ! परमसुहपच्चणीओ एयंपि असोहणं चेव ॥२॥" विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारूवो। संपत्ति निष्फलो केवलं तु मूलं अनत्थाणं ।।३।।
जम्मजरामरणाईविचित्तरूवो फलं तु संसारो।
बुहजननिव्वेयकरो एसोऽसि तहाविहो चेव।।४।। अपि च सूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यास: तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्याप्तमनस्कस्य स्त्रीशरीररामणीयकादिविषय चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात् ।
शौद्धोदनीया: पुनरेवमाहुः-नैरात्म्यादिभावना रागादिक्लेशग्रहाणिहेतुः, नैरात्म्यादिभावनाया: सकलरागादिविपक्षभूतत्वात्, तथाहि-नैरात्म्यावगतो नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच्च न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिधातक: स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना; पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यते तदा कः कस्वोपकर्ता उपघातको वा?, जानक्षणाना च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकर्तुंवा अशक्यत्वात्, तत्र तत्त्ववेदिनः पुत्रादिप्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽना.. दिवासनापरिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात्, ननु यदि न परमार्थतः कश्चिदुपकार्योप-- कारकभावः तहि कथमुच्यते- भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्येकान्तेन तर्हितत्त्ववेदी क्षणानन्तरंविनष्टः सन्न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय यत्नमारभते?, तदयुक्तम्, अभिप्रायापरिज्ञानात्, भगवान् हि प्राचीनायामवस्थायामवस्थित: सकलमपि जगद् ागद्वेषादिदुःखसंकुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्त्तव्यमिति समुत्पत्रकृपाविशेषो नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपितेषामुपकार्यसत्त्वानां नि:क्लेशक्षणोत्पादनाय प्रजाहितो राजेवस्वसन्ततिशुद्धै सकल-- जगत्साक्षात्करणसमर्थः स्वसन्ततिगतविशिष्यक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कार. मन्तरेण सर्वेषामखूणविधानमुपकर्तुमशक्यत्वात्, ततः समुत्पन्नकेवलज्ञान: पूर्वाहितकृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्तते इति,
तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोषं नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभ: यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्त्तते, तत्स्नेहवशाच्च तत्सुखेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org