SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ नन्दी-चूलिकासूत्रं परिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्, स्यादेतत्-प्रत्येकबुद्धान शिष्यभावो विरुध्यते तदेतदसमीची, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यमानवो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिदोषः, __तथा च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियब्वं, कम्हा?, जम्हा पइन्नगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कोरइ, (इति) भणियं पत्तेयबुद्धावि तत्तिया चेव'त्ति, चोयग आह-'ननुपत्तेयबुद्धा सिस्सभावो यविरुज्झए' आयरिओ आहतित्थयरपणीयसासनपडिवत्रत्तणओ तस्सीसा हवंती'ति, अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, नत नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, सेत्त'मित्यादि, तदेतत्कालिकं, तेदतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति। मू.(१३८) से किं तं अंगपविलु?, अंगपविट्ठ दुवालसविहं पन्नतं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ४ विवाहपन्नत्ती५ नायाधम्मकहाओ६ उवासगदसाओ७ अंतगडदसाओ८ अनुत्तरोववाइअदसाओ९ पण्हावागरणाइं१०विवागसुअं११ दिडिवाओ १२, वृ.अथ किं तदङ्गप्रविष्टं?, सूरिग्रह-अङ्गप्रविष्टंद्वादशविधं प्रज्ञप्त, तद्यथा-'आचारः सूत्रकृत' मित्यादि, मू.( १३९)से किंतं आयारे?, आयारेनं समणाणं निगंथाणं आयारगोअरविनयवेनइयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आपविजंति, से समासओ पंचविहे पन्नते, तंजहा-नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियाआरे, आयारेणं परित्ता वायणा संखेज्जा अनुओगदारा संखिज्जा वेढा संखेज्जासिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ.पडिवत्तीओ, से णं अंगट्टयाए पढमे अंगे, दो सुअक्खंधा, पणुवीस अज्झयणा, पंचासीइ उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिज्जा अक्खरा अनंता गमाअनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नता भावा आपविजंति परूविज्जति दसिज्जति निदंसिर्जति उवदंसिज्जति , से एवं आया से एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं आयारे। वृ.अथ किं तदाचार इति?, अथवा कोऽयमाचारः?, आचार्य आह-'आयारेण'मित्यादि, आचरणमाचार: आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचारएवोच्यते, अनेनाचारेण करणभूतेन अथवा आचारे-आधारभूते 'ण'मिति वाक्यालङ्कारे श्रमणानां प्राग्निरूपितशब्दार्थानां बाह्याभ्यन्तरग्रन्थरहितानाम् आह-श्रमणानिर्ग्रन्था एव भवन्ति तत्किमर्थं निर्ग्रन्थानामिति विशेषणं?, उच्यते,शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्-"निग्गथं सक्क तावस गेरुय आजीव पंचहा समणा" इति, तेषामाचारो व्याख्यायते, तत्राऽऽचारो-ज्ञानाचाराद्यनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधि - लक्षण: विनयो- ज्ञानादिविनयः वैनयिकं-विनयफलंकर्मक्षयादिशिक्षा-ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूर्णिणकृत्, तत्र विनेयाः-शिष्याः, तथा भाषा-सत्याऽसत्यामृषा च अभाषा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy