________________
मूलं - १३७
ताओ कप्पडिसियाओ वुच्चंति' तथा 'पुष्पिता' इती यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागो दुःखात्कवसातिमुकुलेन मुकुलिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते, अधिकृतार्थविशेषप्रतिपादिका: पुष्पचूडा:, तथा 'वृष्णिदशा' इति, 'नाम्न्युत्तरपदस्य वे 'ति लक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोप:, ततोऽयं परिपूर्णः शब्द:- अन्धकवृष्णिदशा इति, अयं चान्वर्थ:अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णय: तेषां दशा:- अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः, अथवाऽन्धवृष्णिवक्तव्यताप्रतिपादिका दश-अध्ययनानि अन्धकवृष्णिदशाः, आह च चूण्णिकृत-"अंधकविण्हणो जे कुले अंधगसद्दलोवाओ वण्हिणो भणिया तेंसी चरियं गती सिज्झणा य जत्थ भणिया ता वहिसाओ, दसत्ति अवस्था अज्झयणा वा' इति ।
२०१
'एवमाइया' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भागवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः, तथा सङ्घयेयानी प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकारणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुद्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः, इयमात्र भावना
इह भागवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन्, कथमिति चेत् ?, उच्यते, इह यदभगवदर्हदुपदिषु श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचन कौशलेन धर्मदेशनादिषु ग्रन्थपद्धत्तीरूपतया भाषन्ते तदपि सर्वं प्रकोणकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्त्राणि भावनीयानि, भगवतस्तु वर्द्धमानस्वामिनश्चतुर्द्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्द्दश सहस्राणि । अत्र द्वे मते- एके सूरयः प्रज्ञापयन्ति - इकिल चतुरशीतिसहस्रादिक ऋषभादीन तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्य श्रमणाः प्रभूतता अपि तस्मिन् २ ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिमं श्रमणपरिमाणं प्रवाहतः पुनरेकेकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतदग्रन्था अतत्कालिका अपि तीर्थे वर्त्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह
' अथवे 'त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्म्मजया पारिणामिक्या चतुर्विधया वुद्धया उपेताः - समन्विता आसीन् तस्य - ऋषभादेस्तावन्ति प्रकीर्णकसहस्राण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षेते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणमपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International