________________
मूलं-१३९
२०३ मृषा सत्यामृषा च, चरणं-व्रतादि, करणं-पिण्डविशुद्धादि, उक्तं च"वय (१) समणधम्म (१०) संजम (१७) वेयावच्चं (१०) च बंभगुत्तीओ (९)।
नाणाइतियं (३) तव (१२) कोहनिग्गहाई (४) चरणमेयं ।। पिंडविसोही (४) समिई (५) भावन (१२) पडिमा (१२) य इंदियनिरोहो (५)।
पडिलेहण (२५) गुत्तीओ (३) अभिग्गहा (४) चेव करणं तु ।।" 'जायामायवित्तीउत्ति यात्रा संयममात्रा मात्रा-तदर्थमेव परिमिताहारग्रहणं वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं, 'आचारश्च गोचरश्चे' त्यादिद्धन्दः, आचारगोचरविनयवैनयिकशिक्षाभाषाऽभपाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यनरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमवसेवं,
'से समासओ' इत्यादि, स आचारः 'समासत:' संक्षपतः पञ्चविधः प्रज्ञप्तः, तद्यथा'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचार:
"काले विनए बहुमानुवहाणे तह अनिण्हवणे।
वंजणअत्थतदुभए अट्टविहो नाणमायारो॥" दर्शनाचार:
"निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य ।
उववूह थिरोकरणे वच्छल्लपभावणे अट्ठ।।" प्रभावकाश्चतीर्थस्वामी द्रष्टव्याः
'अइसेस इड्डियायरिय वाई धम्मकहिखवग नेमित्ति।
विज्जा रायागणसंमया य तित्थं पभावंति।।" चारित्राचार:
'पणिहाणजोगजुत्तो पंचहि समिईहिं तिहि उगुत्तीहिं।
एस चरित्तायारो अट्ठविहो होइ नायव्यो।"
तपआचार:
'बारसविहंमिवितवे अभितरबाहिरे जिनुवइटे।
अगिलाए अनाजीवी नायव्वो सो तवायारो।' वीर्याचार:
'अनिगूहिअबलविरिओ परक्कमइ जो जहुत्तमाउत्तो।
जंजइ य जहाथामं नायव्वो वीरियायारो ।' 'आयारेण'मित्यादि, आचारे'ण'मिति वाक्यालङ्कारे परित्ता' परिमिता तं तं प्रज्ञापकं पाठक चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सप्पिणीमवसप्पिणी वा प्रतीत्य परीता वा द्रष्टव्याः, काऽसावित्याह-वाचना' वाचना नाम सूत्रस्यार्थस्य वा प्रदानं, यदि पुन: सामान्यत: प्रवाहमधिकृत्य चिन्त्यते तदाऽनन्ता, तथा चाह चूर्णिणकृत-"सुत्तस्य अत्थस्स वा पयाणं वायणा, सापरित्ता, अनंता न भवति, आइअंतोवलंभणओ, अहवा उस्सप्पिणीओसप्पिणीकालं पडुच्च परित्ता, तीयाना गयसव्वद्धंच पडुच्च अनंता" इति, तथा सङ्घयेयान्यनुयोगद्वाराणि-उपक्रमादीनि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org