________________
नन्दी-चूलिकासूत्रं अस्यामेव हि जाती नरमुपहन्याद्विपं हुताशो वा।
आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि॥२। यन्न प्रयान्ति पुरुषाः स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ।।३।। संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधः प्रमादस्य ॥४॥
आज्ञाप्यते यदवशस्तुल्योदरपाणिपादवदनेन। कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ॥५॥ इह हि प्रमत्तमनसः सोन्मादमदनिभृतेन्द्रियाश्चपलाः । यत्कृत्यं तदकृत्वा सततमकार्येऽष्वभिपतन्ति॥६। तेषामभिपतितानामुद्घान्तानां प्रमत्तहृदयानाम् ।
वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ||७|| दृष्टवाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीतापि भ्राम्यति वायुना नौः ।
लब्ध्या वैराग्यं भ्रष्टयोगः प्रभादाद्भूयो भूयः संसृतौ बम्भ्रमीति ।।८।। एवं प्रतिपक्षद्वारेणाप्रमादस्यापि स्वरूपादयो वाच्याः, 'नन्दी'त्यादि सुगम, सूरियपन्नत्ति'त्ति सूर्यचर्याप्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषीमण्डल मिति पुरुष:- शंकु: पुरुषशरीरं वा तस्मानिष्पन्ना पौरुषी 'तत आगत' इत्यण, आह च चूणिकृत्-‘पुरिसोत्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निप्फन्ना पोरिसी' इति, इयमंत्र भावना सर्वस्यापी वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति, एतच्च पौरुषीप्रमाणमुत्तरायणस्यान्ते दक्षिणायनस्यादौ चैकं दिनं भवति, ततः परमंगुलस्याष्टावैकपष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्ति, एवं मण्डले २ अन्याऽन्या पौरुषो यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमण्डलं, तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले प्रवेशो भवति तथा व्यावर्ण्यतेतध्ययनं मण्डलप्रवेशः, तथा विद्याचरणविनिश्चय' इति, विद्येतिज्ञानं, तच्च सम्यग्दर्शनसहितमवगन्तव्यं, अन्यथा ज्ञानत्वायोगात्, चरणं-चारित्रमेतेषां फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चयः, तथा 'गणिविज्जे ति सबालवृद्धो गच्छो गण; सोऽस्यास्तीति गणी-आचार्यस्तस्य विद्या-ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदितव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रव्राजनसामायिकरोपणोपस्थापनोतोद्देशानुज्ञागणारोपणादिशानुज्ञाविहारक्रमादिषु प्रयोजनपूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः, उक्तं च
"जोइसनिमित्तनाणं गणिणो पव्वावणाइकज्जेसुं।
उवजुज्जइ तिहिकरणाइजाननट्ठऽनहा दोसो।" ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावर्ण्यन्ते सा गणिविद्या, तथा ध्यानविभक्ति'रिति ध्यानानिआर्तध्यानादीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org