________________
मूलं-१३७
१९७ दङ्गप्रविष्टमुच्यते. अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषंतु यच्छ्रुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं च
"गणहरकयमणकयं जं कय थेरेहिं बाहिरं तं तु।
निययं चऽङ्गपविटुं अनिययसुय बाहिरं भणियं ।।" तत्राल्पवक्तव्यत्वात्प्रथममङ्गबाह्यमधिकृत्य प्रश्नसूत्रमाह'से किंत'मित्यादि, अथ किं तदङ्गबाह्यं ?, सूरिराह-अङ्गबाह्यं श्रुतं द्विविधं प्रज्ञप्तं, तद्यथाआवश्यकं चावश्यकव्यतिरिक्तंच, तत्रावश्यं कर्म आवश्यकं, अवश्यकर्त्तव्यक्रियाऽनुष्ठानमित्यर्थः, अथवा गुणानामभिविधिना वश्यमात्मानं करोतीत्यावश्यकम्-अवश्यकर्त्तव्यसामायिकादिक्रियानुष्ठानं तत्प्रतिपादकं श्रुतमपि आवश्यक. चशब्दः स्वगतानेकभेदसूचकः
'से कि त'मित्यादि, अथकिं तदावश्यकं ?, सूरिराह-आवश्यकं षड्विधं प्रज्ञप्तं, तद्यथा'सामायिक'मित्यादि निगदसिद्धं, 'सेत्त'मित्यादि तदेतदावश्यकं ।।
'से किंत'मित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं तद्यथा-कालिकमुत्कालिकं च, तत्र यद्दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निर्वृत्तं कालिकमितिव्युत्पत्तेः, यत्पुनः कालवेलावज पठ्यते तदुत्कालिकं, आह चचूष्णिकृत्-"तत्थ कालियं जं दिनराई(ए)न पढमचरमपोरिसीसु पढिज्जई। जंपुन कालवेलावजं पढिज्जइतं उक्कालियं"ति, तत्राल्पवक्तव्यत्वात्प्रथममुत्कालिकमधिकृत्य प्रश्नसूत्रमाह
'से किं त'मित्यादि, अथ किं तदुत्कालिकं श्रुतं?, सूरिराह-उत्कालिकं श्रुतमनेकविधं प्रज्ञप्तं, तद्यथा-दशवैकालिकं तच्च सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं, तत्पुनर्द्विभेदं, तद्यथा'चुलकप्पसुयं महाकप्पसुयं' एकमल्पग्रन्थमल्पार्थं च द्वितीयं महाग्रन्थं महार्थं च, शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः, तत्र ‘पन्नवण'ति जीवादीनां पदार्थानां प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपमेवं-प्रचुर कर्मेन्धनप्रभवनिरन्तरविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रक
र्मोदयसाचिव्यजनितान् परिणामविशेषादपश्यत्रिव तद्भवमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु प्रमादः, तस्य च प्रमादस्य ये हेतवो मद्यादयस्तेऽपि प्रमादास्तत्कारणत्वात्, उक्तंच
"मज्जं विसय कसाया निद्दा विगहा य पंचमी भणिया।
एए पंच पमाया जीवं पाडंति संसारे॥" एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारुणो विपाकः, उक्तं च
"श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन। संसारबन्धनगर्तेन तु प्रमादः क्षमः कर्तुम्॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org