________________
१९६
नन्दी-चूलिकासूत्रं ववाए वरुणोववाए गुरुलोववाए धरणोक्वाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवणिआओ निरयावलियाओकप्पिआओ कप्पवडिसिआओ पुफिआओ पुप्फचूलिआओ वण्हीदसाओ। __एवमाइयाइं चउरासीइं पइन्नगससहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिनवराणं चोद्दसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, ___ अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए पारिणामिआए, चउव्विहाए बुद्धीए उववेआ तस्स तत्तिआई पइनागसहस्साई, पत्तेअबुद्धावि तत्तिआ चेव,
सेत्तं कालिअं, सेत्तं आवस्सयवइरित्तं,सेतं अनंगपविटुं।
वृ.अथ किंतद्गमिकं?, इहादिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गमः, तत्रादौ-"सुयं मे आउसंतेणं भगवया एवमक्खायं इहखलु" इत्यादि, एवं मध्यावसनायोरपि यथासम्भवंद्रष्टव्यं, गमाअस्य विद्यन्ते इति गामिकं, 'अतोऽनेकस्वरा'दिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णी - "आई मज्झेऽवसाने वा किंचिविसेसजुत्तं दुगाइसयग्गसो तमेव पढिज्जमाणं गमियं भन्नई"त्ति, तच्च गमिकं प्रायो दृष्टिवादः, तथा चाह-'गमियं दिट्ठीवाओ' तद्विपरीतमगमिकं तच्च प्राय आचारादि कालिकश्रुतम्, असदृशपाठात्मकत्वात्, तथा चाह-'अगमियं का लियसुयं' 'सेत्त'मित्यादि, तदेतद्गमिकमगमिकं च। _ 'तं समासओ'इत्यादि, तद्गमिकमगमिकं च, अथवा तत्-सामान्यतः श्रुतमर्हदुपदेशानुसारि समासतः-संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा-अङ्गप्रविष्टमङ्गबाह्यं च, अत्राह-ननु पूर्वमेव चतुर्दशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गबाह्यं चेत्युपन्यस्तं, तत्किमर्थं भूयस्तत्समासत इत्याधुपन्यासेन तदेव न्यस्यते इति?, उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानं, अथवाऽङ्गानङ्गप्रविष्टमर्हदुप्रदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोषः, तत्राङ्गप्रविष्टमिति
इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा-द्वौ पादौ द्वै जवे द्वे उरुणी द्वे गात्रा॰ द्वौ बाहू ग्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्याऽऽ चारादीनि द्वादशाङ्गनि क्रमेण वेदितव्यानि, तथा चोक्तं
"पायदुगं जंघोरू गायदुगद्धं तु दो य बाहू य।
गीवा सिरं च पुरिसो बारस अङ्गो सुयविसिट्ठो ।" श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम्-अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्ट, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारदिकं श्रुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां, ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टप्युच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्यविरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं, तथाहि
आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थं क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org