________________
मूलं-१३७
१९९ तेषां विभजनं विभक्तियस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तान्यप्रशस्तानि च, तेषां विभजनं-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धतो सा मरणविभक्तिः तथाऽऽत्मनो-जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धि:कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धातौ साऽऽत्मविशुद्धिः, तथा 'वीतरागश्रुत'मिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं, तथा 'संलेखनाथूत'मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रोत्सर्गत इयं द्रव्यसंलेखना
"चत्तारि विचित्ताई विगईनिज्जूहियाइ चत्तारि। संवच्छरे उदोन्नि उएगंतरियं च आयामं ॥१॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम।
अन्नेवि य छम्मासे होइ विगिटुंतवोकम्मं ॥२॥ वासंच कोडिसहियं आयामं कट्ट आनुपुव्वीए।
गिरिकंदरंमि गंतुं पायवगमनं अंह करेइ ।।३।। भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'विहारकल्प'इति विहरणं विहार: तस्य कल्पो- व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थेस विहारकल्पः, तथा ('चरणविधि'रिति) चरणं- चारित्रं तस्य विधिर्यत्रवर्ण्यते स चरणविधिः, तथा'आतुरप्रत्ययाख्यान मिति, आतुरः-चिकित्साक्रियाव्येपतस्तस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानं, विधिश्चातुरस्य प्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शित:-"गिलाणकिरियातीयं गीयत्था पच्चक्खावेंति दिने २ दव्वहासं करेता अंते य सव्वदव्वदायणाए भत्तवेरग्गं जणइत्ता भत्ते वितिण्हस्स भवचरिमपच्चक्खाणं कारवेंति"ति।
तथा ('महाप्रत्याख्यान'मिति) महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानं, इह चूर्णिणकारेण कृता भावना दर्श्यते-"थेरकप्पेण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिनकप्पिया पुन विहारेणेव संलीढा तहावि जहाजुत्तं संलेहणं करेत्ता निव्वाधायं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एवं सवित्थरंजत्थज्झयणे वण्णिज्जइ तमज्झयणं महापच्चक्खाणं' (बृहट्टीकासत्कमेतत्) “एवं तावदमून्यध्ययनानि-एतान्यध्ययनानि जहाभिहाणत्थाणि भणियाणि' 'सेत्त'मित्यादि, निगमनं, तदेतदुत्कालिकमुपलक्षणं चैतदिति उक्तमुत्कालिकं,
'से किं त'मित्यादि, अथ किं तत्कालिकं ?, कालिकमनोकविधं प्रज्ञतं, तद्यथेत्यादि, 'उत्तराध्ययनानि' सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमन्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि 'दसाओ' इत्यादि प्रायो निगदसिद्ध, निशीथ'मिति निशीथवन्निशीथं, इदं प्रतीतमेव, तस्मात्परं यद्ग्रन्थार्थाभ्यां महत्तरंतन्महानिशीथं, तथा आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या क्षुल्लिका विमानप्रविभक्तिः द्वितीया महाविमनाप्रविभक्तिः, तथा 'अङ्गचूलिके'ति अङ्गस्य-आचारादेश्चूलिकाऽङ्गचूलिका, चूलिका नाम उक्तानुक्तार्थसंग्रहात्मिका ग्रन्थपद्धतिः, तथा वर्गचूलिके'ति वर्ग:-अध्ययनानां समूहो यथाऽतकृद्दशास्वष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याचूलिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org