SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ नन्दी - चूलिकासूत्रं विशेषाभावात्, ज्ञवं यावच्चरमसमयेऽपि, अथ च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते तत: प्रागपि कापि कियती ज्ञानमात्रा द्रष्टव्या, अथ मन्येथाः - मा भूत्प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात्, चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात्, तदयुक्तं यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेत्, न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैलं समुद्भवदुपलभ्यते, अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यस्मपृक्तौ ज्ञानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपि ज्ञानानुपपत्ते:, तथ चोक्तं "जं सव्वहा न वीसुं सव्वेसुवि तं न रेणुतेल्लं । पत्तेयमनिच्छंतो कहमिच्छसि समुदये नाणं ? ।। " ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं । चशब्दौ स्वगतानेकभेदसूचकौ, ते च स्वगता अनेक भेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आहप्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि - अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किञ्चिद् दृष्टं परं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपि च- अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः, , सम्प्रति तु व्यञ्जनावग्रहादूर्ध्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति मू. ( ११३ ) से किं तं वंजणुग्गहे ?, वंजणुग्गहे चउव्विहे पन्नत्ते, तंजहा- सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिब्भिदियवंजणुग्गहे फासिंदिअवंजणुग्गहे। से तं वंजणुग्गहे। वृ. ' से कि तमि' त्यादि, अथ कोऽयं व्यञ्जनावग्रहः ?, आचार्य आह-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा - ' श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह - सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इहव्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, ननयनमनसोः, तयोरप्राप्यकारित्वात्, आह कथमप्राप्यकारित्वं तयोरवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि - यदि प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तर्हि स्पर्शनेन्द्रियं स्त्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्दत्तत्कृतानुग्रहोपघात भाग् भवति तथा चक्षुर्मनसी अपि भवेतां, विशेषाभावात्, नच भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्येते एव चक्षुषोऽपि विषयकृतावनुग्रहोपधातौ तथाहिघनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनभनवरतमवलोकमानस्य भवति चक्षुषो विधातः, शशाङ्ककरकदम्बकं यदिवा तरङ्गमालोपशोभितं जलं तरुमैण्डलं च शाड्वलं निरन्तरं निरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावित भाषितं यतो न ब्रूमः - सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किन्त्वेतावदेव वदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपधातौ तस्य न भवत इति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy