________________
मूलं - १११ अवग्गहणमवग्गह" इति ।
१६३
तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्तं भवति- अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽद्भूतार्थविशेषपरित्यागाभिमुख:- प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्म्मा दृश्यन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गदिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत् भूयो भूयः- “विसेसादानच्चायाभिमुहमीहा" तथा तस्यैवावगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्वयसायोऽवायः शाङ्ख एवायं शार्ङ्ग एवा (व वा)यमित्यादिरूपोऽवधारणात्मकः प्रत्ययो ऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, साच त्रिधा - अविच्युतिर्वासना स्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसङ्ख्येयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिककारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यत् मया प्रागुपलब्धमित्यादिरूपं सा स्मृतिः, उक्तं च
"तदनंतरं तदत्थाविच्चवणं जो उ वासनाजोगो । कालंतरेण जं पुन अनुसरणं धारणा सा उ॥"
एताश्चाविच्युतिवासनास्मृतयो धारणालक्षणसामान्यन्वर्थयोगाद्धारणाशब्दवाच्याः ॥
मू. (११२ ) से किं तं उग्गहे ?, उग्गहे दुविहे पत्रत्ते, तंजहा- अत्थुग्गहे अ वंजणुग्गहे अ । वृ. 'से किं तमित्यादि, अथ कोऽयमवग्रहः ?, सूरिराह - अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथाअर्थावग्रहश्च व्यञ्जनावग्रहश्च तत्र अर्थ्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः सकलरूपादिविशेषनिरपेक्षानिर्द्देश्यसामान्यमात्ररूपार्थग्रहणमेकसामयिकमित्यर्थः । तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं च, तथा चाह भाष्यकृत्
"वंजिज्जइ जेनऽत्थो घडोव्व दीवेन वंजणं तं च । उवगरणिदियसद्दाइपरिणयद्दव्वसंबंधो ॥"
व्यञ्जनेन-सम्बन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि, 'कृद्बहुल' मिति वचनातए कर्मण्यनद्, व्यञ्जनानां शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः - अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, व्यज्यतेऽनेनार्थः प्रदीपेनेव घटइति व्यञ्जनं-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य-शब्दादेरवग्रहणम्-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना - उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् प्राक् या सुप्तमत्तमूच्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, चान्तर्मुहूर्त्तप्रमाण: ।
अत्राह - ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत्कथमसौ ज्ञानरूपी गीयते ?, उच्यते, अव्यक्तत्वान्ना संवेद्यते, ततो न कश्चिद्दोष:, तथाहि यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
-
स