________________
नन्दी - चूलिकासूत्रं 'नासिकसुंदरिनंदे 'त्ति नासिक्यपुरे सुन्दरी भर्तृनन्दस्य भ्रात्रा साधुना यन्मेरुशिरसि नयनं यच्च देवमैथुनकं दर्शितं सा पारिणामिकी बुद्धिः । वइर 'त्ति वज्रस्वामिनो बालभावेऽ वर्त्तमानस्य मातरमवगणय्य सङ्घबहुमानकरणं सा पारिणामिकी बुद्धिः ।
मू. ( १०९ ) चलणाहण १६ आमंडे १७ मणी अ १८ संप्पे अ १९ खग्गि २० थूभिदे २१ । परिणामियबुद्धीए एवमाई उदाहरण ||
१६२
-
वृ. 'चलणाहण 'त्ति कोऽपि राजा तरुणैर्व्युद्रग्राह्यते- - यथा देव! तरुणा एव पार्श्वे ध्रियन्तां, किं स्थविरैः वलिपलितविशोभितरीरैः ?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते - यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति ?, ते प्राहुः - तिलकमात्राणि खण्डानि स विकृत्य मार्यते इति, ततः स्थाविरान् पप्रच्छ - तेऽवोचत्त देव ! परिभाव्य कथयामः, ततस्तैरेकान्ते गत्वा चिन्तितंको नाम हृदयवल्लभां देवीमतिरच्यान्यो देवं शिरसि ताडयितुमीष्टे, हृदयवल्लभा च विशेषतः सन्माननीति, ततस्ते समागत्य राजानं विज्ञपयामासुः - देव! स विशेषतः सत्कारणीय इति, तत्तो राजा परितोषमुपागतस्तान् प्रशंसतिवान् को नाम वृद्धान् विहायान्य एवंविधबुद्धिभाग् भवति, ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणानिति । राज्ञः स्थविराणां च पारिणामिकी बुद्धिः । 'आमंडे 'त्ति कृत्रिममालकमिति, कठिनत्वादकालत्वाच्च केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः ।
'माणि 'त्ति कोऽपि सर्व्यो वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षयति, अन्यदा च स वृक्षस्थितो निपतितः, मणिश्च तस्य तत्रैव कचित् प्रदेशे स्थितः, तस्य च वृक्षस्याधस्तान् कूपोऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकलमपि कूपोदकं रक्तीभूतमुपलक्ष्यते, कूपादाकृष्टं च स्वाभाविकं दृश्यते, एतच्च बालकेन केनापि निजपितुः स्थविरय निवेदितं, सोऽपि तत्र समागत्य सम्यक्परिभाव्य मणि गृहीतवान्, तस्य पारिणामिकी बुद्धिः । ' सप्पे 'त्ति सर्पस्य चण्डकौशिकस्य भगवन्तं प्रति या चिन्ताऽभूत - ईदृगयं महात्मेत्यादिका सा पारिणामिकी बुद्धिः ।
'खग्ग 'त्ति कोऽपि श्रावक : प्रथमयौवनमदमोहितमना धर्मकृत्वा पञ्चत्वमुपागतः खङ्गः समुत्पन्नः, यस्य गच्छतो द्वयोरपि पार्श्वयोश्चर्माणि लम्बन्ते स जीवविशेष: खङ्गः, स चाटव्यां चतुष्पथे जनं मारयित्वा खादति, अन्यदा च तेन पथा गच्छतः साधून् दृष्ट्वान्, स चाक्रमितुं न शक्नोति, ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः । 'धूम' (भिंदे) त्ति विशालायां पुरिकूलवालकेन विशालाभङ्गाय यन्मुनिसुव्रतस्वामिपादुकास्तूपोत्खातनं सा तस्य पारिणामिकी बुद्धिः । पारिणामिक्या बुद्धेरेवमादीन्युदाहरणानि । से तं असुअनिस्सियं ॥
भू. ( ११० ) वृ. 'सेत्तमित्यादि, तदेतदश्रुतनिश्रितं ।
मू. (१११ ) से किं तं सुअनिस्सिअं ?, २ चउव्विहं पत्रत्तं, तंजहा - उग्गह १ ईहा २ अवाओ ३ धारणा ४
वृ. 'से किं तमित्यादि, अथ किं तच्छ्रुतनिश्रितं मतिज्ञानं ?, गुरुराह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तं, तद्यथा - अवग्रहईहा अपायो धारणा च तत्र अवग्रहणमवग्रहः - अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत् -"सामान्यस्स रूवादिविसेसणरहियस्स अनिद्देसस्स
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org