________________
मूलं-११३
१६५ तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपददाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शोतलत्वादनुग्राहकास्ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृह्णन्ति, ददङ्गमालासंकुलजलावलोकने च चलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाड्वलतरुमण्डलावलोकनेऽपिशाड्वतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात्, शेषकालं तुजलावलोकनेऽनुग्रहाभिमान उपधाताभावादवसेयः, भवति चोपधाताभावेऽनुग्रहाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनृित्य यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादेयोऽपि कस्मान भवन्तीति?, अपिच-यदि चक्षुः प्राप्यकारि तहि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति?, तस्मादप्राप्यकार्येव चक्षुः।
ननु यदि चक्षुरप्राप्यकारि तहिं मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनान् न गृह्णाति, यदि हि प्राप्त परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनांगमनासम्भवः सम्पर्काभावात्, ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम्-प्राप्तयकारि चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतराप्रेक्षणात् अदूरेतराप्रेक्षणाच्च, यदि हि चक्षुरप्राप्यकारित् भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातककरणसमर्थं, प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातावदुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलुमनोऽप्यशेषान् विषयान् गृह्मति, तस्यापि सूक्ष्मेवागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वात् नियतविपयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति नव्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति। __ अपि च दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्योग्यदेशापेक्षणं, यथाऽयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्पणे प्रवर्तमानः सर्वस्याप्ययसो जगद्वर्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु) शङ्करस्वामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सहसमाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणव: सूक्ष्मत्वानोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हितत्र छायाणुसम्भवग्रहाकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संगपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षण चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपि च यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्ना - कर्षन्ति ?, शक्तिप्रतिनियमादिति चेत् ननु सशक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थ छायाणुपरिकल्पनं । अन्यस्त्वाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org