________________
मूलं-१०५ इत्यर्थः, तथा कर्मणि प्रसङ्ग:-अभ्यासः परिधोलनं-विचारस्ताभ्यां विशाला-विस्तारमुपगता कर्मप्रसङ्गपरिधोलनविशाला, तथा साधुकृतं-सुष्टुकृतमिति विद्वद्भिः प्रशंसा साधुकार: तेन युक्तं फलं साधुकारफलं तद्वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः फलमित्यर्थः, सा तथा कर्मसमुत्था बुद्धिर्भवति। ___ अस्या अपिविनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयति-'हेरण्णिए' इत्यादौ षष्ट्यर्थे सप्तमी, ततोऽयमों-हरेण्यके हैरण्यकस्य कर्मजा बुद्धिः, एवं सर्वत्रापि योजना काया, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषण रूपकं यथावस्थितं परीक्षते। _ 'करिसग'त्ति अत्रोदाहरणं-कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान्, ततः प्रातरलक्षितस्तस्मिन्नेव गृहे समागत्य जनेभ्य: प्रशुसामाकर्णयति, तत्रैकः कर्षकोऽब्रवीत्किं नाम शिक्षितस्य दुष्करत्वं?, यद्येन सदेवाभ्यस्तं कर्म स तत्प्रकर्षप्राप्तं करोति, नात्र विस्मयः, ततः स तस्कर एतद्वाक्यममर्षवैश्वानरसन्धुक्षणसममाकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुषं-कोऽपं कस्य वा सत्क इति?, ज्ञात्वा च तमन्यदा क्षुरिकामाकृष्य गतः क्षेत्रे तस्य पार्श्वे, रे! मारयामि त्वां सम्प्रति, तेनोक्तं--किमिति?, सोऽब्रवीत्-त्वया तदानीं न मम खातं प्रशंसितमितिकृत्वा, सोऽब्रवीत्-सत्यमेतत्, यो यस्मिन् कर्मणि सदैवाभ्यासपर: सतद्विषये प्रकर्षवान् भवति, तत्राहमेव दृष्टान्तः, तथाहिअमून् मुद्गान् हस्तगतान् यदि भणसि तहि सर्वानप्यधोमुखान् पायतामि यद्वा ऊर्ध्वमुखान् अथवा पार्श्वस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानप्यधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽप्यधोमुखा मुद्गाः, जातो महान् विस्मश्चौरस्य, प्रशंसितं भूयो भूयस्तस्य कौशलमहो विज्ञानमहो विज्ञानमिति, वदति चोरो-यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारायिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः।
'कोलिय'त्ति कौलिकस्तन्तुवायः, स मुष्टया तन्तूनादाय जानाति-एतावद्भिः कण्डकैः पटो भविष्यति। 'डोए'त्ति दर्वी वर्द्धकिर्जानाति-एतावदत्र मास्यतीति।
'मुत्ति'त्ति मणिकारो मौक्तिकमाकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पतितो मौक्तिस्य रन्ध्रे स प्रविशतीति। _ 'घय'त्ति धृतविक्रयो स्वविज्ञानप्रकर्षप्रासो यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुण्डिकानालेऽपि धृतं प्रक्षिपति । 'पवय'त्ति प्लवकः, स चाकाशस्थितानि करणानि करोति।
"तुण्णागति सीवनकर्मकर्ता, सचस्वविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा प्रायो यत्केनापि नलक्ष्यते । 'वड्डइ'तिवर्द्धकिः, स चस्वविज्ञानप्रकर्षप्राप्तोऽमित्वापि देवकुलरथादीनां प्रमाणं जानाति। 'पूयइत्ति आपूपिकः, स चामित्वाप्यपूपानां दलस्य मानं जानाति । 'धडत्ति घटकार: स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्णाति। 'चित्तकारे'त्ति चित्रकारः, स च रूपकभूमिकाममित्वाऽपि रूपकप्रमाणं जानाति तावन्मात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org