________________
१५८
- नन्दी-चूलिकासूत्रं परिभावितं सद्यः तत्तस्य नखादिकर्म, तत: पृष्टाः सर्वेऽपि नापिता:-केनेदं भोः कृतमस्य नखादिकं कम्र्मेति?, तत एकेन नापितेनोक्तं-मया कृतममुकाभिधवणिग्भार्यादासचेट्यदेशेन, ततः सा पष्टा-सापि च पूर्वं न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास । दाण्डापाशिकानां वैनयिको बुद्धिः १४१ _ 'गोणे धोडगपडणंच रुक्खाओ'कोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति, ततोऽन्यदा मित्रं बलीवौ याचित्वा हलं वाहयति, अन्यदाच विकालवेलायां तावानीया वाटके क्षिप्तौ, सच वयस्यो भोजनंकुर्वत्रास्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः, तौ च बलीवौ वाटकान्निःसृत्यान्यत्र गतौ, ततोऽप्यपहतौ तस्करैः, स च बलीवईस्वामी तमकृतपुण्यं वराकं बलिवी याचते, स च दातुं न शक्नोति, ततो नीयते तेन राजकुलं, पथि च गच्छतस्यस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति, स चाश्वेन पातितः अश्वश्च पलायमानो वर्तते, ततस्तेनोक्तम्-आहन्यमतामेष दण्डेनाश्च इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युमुपागमत्, ततस्तेनापि पुरुषेण स वराको गृहीतः, तेच यावनगरमायातास्तावत्करणमुत्थितमितिकृत्वा ते नगरबहिष्प्रदेशे एवोषिताः, . तत्र च बहवो नटाः सुप्ता वर्तन्ते, स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्रान् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्त्तमारब्धं, परंजीर्णदण्डिवस्त्रखण्डेन गले पांशो बद्धः, तच्च दण्डीवस्त्रखण्डमतिदुर्बलमिति त्रुटितं, ततः सवरांकोऽधस्तात्सुप्तनटमहप्रातः सर्वेऽपि राजकुलं, कथितः सर्वैरपिस्व: स्व: व्यतिकरः, ततः कुमारामात्येन सवराक: पृष्टः सोऽपिदीनवदनोऽवादीद्-देव! यदेते ब्रुवते तत्सर्वं सत्यमपि, ततः तस्योपरि सञ्जातकृप: कुमारामात्योऽवादीत्-एष बलीवर्दी तुभ्यं दास्यति, तव पुनरक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुाभवलोकितौ बलिवौं, यदि पुनस्त्वया चक्षुर्त्या नावलोकितौ बलीवदौ स्यातां तदैषोऽपिस्वगृहंन यायात्, नहियो यस्मै यस्य समर्पणायागतः स तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति, तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव पुनरेष जिह्वां छेत्स्यति, यदा हि त्वदीयजिह्वयोक्तम्-एवमश्वं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्यदा, तत एषदण्डेनाऽऽहन्ता दण्डयन्ते तवन पुनजिह्वेति कोऽयं नीतिपथ:?, तथा नटान् प्रत्याह-अस्य पार्श्वे न किमप्यस्ति ततः किं दापयाम: ?, एतावत्पुनः कारयामः एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षे गलपाशेनात्मानं बद्ध्वा मुक्तवान तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि मुक्तः । कुमारामात्यस्य वैनयिकी बुद्धिः १५ । उक्ता वैनयिकी बुद्धिः कर्मजाया बुद्धेर्लक्षणमाहमू.(१०४) उवओगदिवसारा कम्मपसंगपरिधोलणविसाला।
साहुकारफलवई कम्मसमुत्था हवइ बुद्धि। मू.(१०५)हेरण्णिए १ करिसए २ कोलिअ ३ डोवे अ४ मुत्ति ५ घय ६ पवए ७।
तुनाए ८ वडइय ९ पूयइ १० धड ११ चित्तकारे अ१२॥ वृ. उवओगे'त्यादि, उपयोजनमुपयोगो-विवक्षितकर्माणि मनसोऽभिनिवेशः सार:-तस्यैव विवक्षितः परमार्थः, उपयोगेन दृष्टः सारो ययासा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org