SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मूल-१०२ १५७ पुष्टं राज्ञा-भगवन् ! यूयं जानीत?, सूरय उक्तवन्तो-बाढं, ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पर्काच्च विलीनं मदनमिति लब्ध: सूत्रस्यान्तः, यष्टिरपि पानीये क्षिप्ता, ततो गुरुभागो मूलमिति ज्ञातं, समुद्गकेऽप्युष्णोदके क्षिसे जतु सर्वं गलितमिति द्वारं प्रगटं बभूव, ततो राजा सूरिन् प्रत्यवादीत्-भगवन्! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरुतयेन तत्र प्रेषयामि, ततः सूरिभिस्तुम्बकमकेस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतं, ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रजकीयाः पुरुषा:-एतद्भक्त्वा इतो रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कत्तुं । पादलिप्तसूरीणां वैनयिकी बुद्धिः ९। ___ 'अगए'त्ति क्वच्चिपुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकर: सर्वत्र पातितः, ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमानं विषमानीय राज्ञः समपितवान्-देव ! गुहाण विपमिति, राजा च स्तोकुकं विषं दृष्ट्वा चुकोप तस्मै, वेद्यो आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिन: पुच्छदेशे वालकमेकमुत्पाट्य तदीरयन्धे विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं. सहस्रवेधि, ततो राजा हस्तिहानिद्रनचेतासंप्रत्युवाच-अस्ति कोऽपि हस्तिनः प्रतिकारविधिः?, सोऽवादीत्-वाढमस्ति, ततस्तस्मिन्नेव वालरन्ध्रेऽमदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय। वैद्यस्य वैनयिकी बुद्धिः १०। 'रहिए गणिया य'त्ति स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच्च गणिकायाः सर्षपराशेरुपरि नर्त्तनं ते द्वे अपि वैनयिकीबुद्धिफले ११-१२। मू.(१०३) सीआ साडी दोहं च तणं अवसव्वयं च कुंचस्स १३ । निव्वोदए अ १४ गोणे घोडगपडणं त रुक्खओ १५ ।। वृ. सीये 'त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा, ते च तस्मै आचार्यय प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चि-देतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारायामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कमपि शाटी वदन्ति-"अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्वं च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं-सर्व ममविरक्त, केवलमेते कुमार मम भक्तिवशात् ज्ञापयन्ति, ततो यथानलक्ष्यते तथा पलाययामास, कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः १३1 ___ 'निव्वोदएणं 'ति काऽपि वणिग्भार्याचिरं प्रोषिते भर्तरिदास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषमति, ततस्तवा समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वावपिसम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्, ततस्तेन तृषा पीडितेन पुरुषेण नीव्रोदकं पीतं तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः, प्रभाते चदृष्टो दाण्डपाशिकैः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy