________________
१५६
नन्दी-चूलिकासूत्रं चक्षुपा सानन्दमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच-तव दोषो यन्न विमर्श करोषि, न मम, वयं हिशास्त्रार्थमात्रोपदेशेऽधिकृता: विमर्शे तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः १ । _ 'अत्थसत्थे 'त्ति अर्थशास्त्रे कल्पको मन्त्री दृष्टान्तो, 'दहिकुंडग उच्छुकलावओ य' इति संविधानके लेह'त्ति लिपिपरिज्ञान, गणिए 'त्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी २-३-४। कुवे त्ति खातपरिज्ञानकुशलेनकेनाप्युक्तं यथैतरे जलमिति, ततस्तावत्प्रमाणं खातं परं नोत्पन्न जलं, ततस्ते, खातपरिज्ञाननिष्णाताय निवेदयामासुः-नोत्पन्न जलमिति, ततस्तेनोक्तं-पार्ष्णिप्रहारेण पान्याहत, आहतानि तैः, ततः पार्णिप्रहारसमकालमेव समुच्छलितं तत्र जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धि: ५।
'अस्से 'त्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमारा: स्थूलान् बृहतश्चाश्वान् गृह्णन्ति, वासुदेवेन पुनर्यो लधीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्वावहश्चं जातः । वासुदेवस्य वैनयिकी बुद्धिः६। __ 'गद्दभे 'त्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमानमेव रमणीयं सर्वकार्यक्षमं न मन्यमानस्तरुणानेव निजकटके धारितवान्, वृद्धांस्तु सर्वानपि निषेधयामास, सोऽन्यदा कटकेन गच्छन्नापान्तरालेऽटव्यां पतितपावन्, तत्र च समस्तोऽपि जनस्तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनाप्युक्तो-देव! न वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयन्तु देवपादाः कापि वृद्धमिति, ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घोषितः, तत्र चैकेन पितृभक्तेन प्रच्छनो निजपिता समानीतो वर्तते, ततस्तेनोक्तं-मम पिता वृद्धोऽस्तीति, ततो नीतो राज्ञः पार्वे, राज्ञा च सगैरवं पृष्टः-कथय महापुरुष! कथं मे कटके पानीयं भविष्यति?, तेनोक्तं-देव! रासभाः स्वैरं मुच्यन्तां, यत्र ते भुवं जिध्रन्ति तत्र पानीयमतिप्रत्यासन्नमवगन्तव्यं, तथैव कारितं राज्ञा, समुत्पादितं पानीयं, स्वस्थीबभूव च समस्तं कटकमिति। स्थविरस्य वैनयिकी बुद्धिः,७।
'लक्खण'त्ति पारसीकः कोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्यो कालनियमनं कृत्वा अश्वक्षणमूल्यं द्वावश्वौ प्रतिपत्रवान्, सोऽपि चाश्वस्वामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टाकावश्वौ भव्याविति?, तयोक्तम्-अमीषामश्वानां विश्वस्तानां मध्ये य: पाषाणभृतकुतपानांवृक्षशिखरान्मुक्तानामपि शब्दामाकर्ण्य नो त्रस्यतस्तो भव्यौ, तेन तथैवैतो परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽश्वं देहि, अश्वस्वामी प्राह-सर्वानप्यन्यान् अश्वान् गृहाण, किमेताभ्यां तवेति?, स नेच्छति, ततोऽश्वस्वामिना स्वभार्यायै न्यवेदि, भणितं चगृहजामाता क्रियतामेष इति, अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति, सा नैच्छत्, ततोऽश्वस्वामी प्राह-लक्षणयुक्तेनाश्वेनान्येऽपि बहवोऽश्वाः सम्पद्यन्ते कुटुम्बंच परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्माक्रियतामेतदिति, ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिता, कृतो गृहजामातेति। अश्वस्वामिनो वैनयिकीबुद्धि:८। _ 'गंठि'त्ति पाटलिपुरे नगरे मुरुण्डो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूढं सूत्रं समा यष्टिरलक्षितद्वार: समुद्गको जतुना धोलितः' तानि च मरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, परं केनापि न ज्ञातानि, तत आकारिता: पादलिप्ताचार्याः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org