________________
१६०
वा वर्णं कुञ्चिकायां गृह्णाति यावन्मात्रेण प्रयोजनमिति । उक्ता कर्मजा बुद्धिः सम्प्रति पारिणामिक्या लक्षणमाहमू. ( १०६ ) अनुमानहेउदिद्वंतसाहिआ वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ॥
वृ. 'अणुमाणे 'त्यादि, लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं तच्च स्वार्थानुमानमिह दृष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतु:, परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतु:, दृष्टान्तः प्रतीतः, आहअनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य कचिदृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमाणबलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः, न च दृष्टान्तोऽनुमानस्याङ्गं यत उक्तम्- "अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? " ततः पृथग् दृष्टान्तस्योपादानं, तत्र साध्यस्योपमा भूतो दृष्टान्तः, तथा चोक्तम्- " यः साध्यस्योपमाभूतः, (स) दृष्टान्त इति कथ्यते । "
अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः -पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम्अभ्युदयो निःश्रेयसं-मोक्षस्ताभ्यां फलवती ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी
नाम ।
नन्दी - चूलिकासूत्रं
अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं प्रकटयति- 'अभये' इत्यादिगाथात्रयं, अस्यार्थः कथानकेभ्यो ऽवसेयः, तानि च कथानकानि प्रायो ऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि, इह त्वक्षरयोजनामात्रमेव केवलं करिष्यते ।
मू. (१०७ ) अभए १ सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया५ । साहू य नंदिसेने ६ धनदत्ते ७ सावग ८ अमच्चे ९ ॥
-
वृ. तत्र अभय त्ति अभयकुमारस्य यच्चण्डप्रद्योताद्वरचतुष्टयमार्गणं यच्चण्डप्रद्योतं बद्ध्वा नगरमध्येनारटन्तं नीतवानित्यादि सा परिणामकी बुद्धिः ।
4
'सेट्टि 'ति काष्ठश्रेष्टी, तस्य यत्स्वभार्यादुश्चरितमवलोकस्य प्रव्रज्याप्रतिपत्तिकरणं, यच्च पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरं विहारक्रमं कुर्वतः पुत्रसमक्षं धिग्जातीयैरुपस्थापिताया द्व्यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्या-मीति वदन्त्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनेर्विनिर्गच्छतु नो चेदुदरं भित्त्वा विनिर्गच्छत्विति यत् शापप्रदानं, सा परिणामिकी बुद्धिः ।
Jain Education International
'कुमारे 'ति मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्त्तमानस्य कदाचिद्गुणन्यां गतस्य प्रमादादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽ जीर्णरोगप्रादुर्भावादतिपूतिगन्धि वातकायमुत्सुजतो या उद्गता चिन्ता, यथा अहो ! तादृशान्यपि मनोहराणि कणिकादीनि द्रव्याणि शरीरसम्पर्क वशात्पूतिगन्धानि जातानि तस्माद् धिगिदमशुचि शरीरं, धिग्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पायान्यारभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊर्ध्वं तस्य शुभशुभतराध्यवसाय भावतोऽन्तमुहूर्तेन केवलज्ञानोत्पत्तिः ।
'देवि 'त्ति देव्याः पुष्पवत्यभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूला
For Private & Personal Use Only
www.jainelibrary.org