________________
नन्दी-चूलिकासूत्रं तथा परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरपालोचनजन्य आत्मना धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी।
बुध्यतेऽनयेति बुद्धिः, सा चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ?, यस्मात्, पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्यश्रुतनिश्रितमतिविशेषस्यौत्पत्तिक्यादिबुद्धिचतुष्टय एवान्तर्भावात् । तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथममौत्यत्तिक्या लक्षणमाहमू.(९७) पुव्वं अदिट्ठमस्सुअमवेइयतक्खविसुद्धगहिअत्था।
अव्याहयफलजोगा बुद्धी उप्पत्तिआ नाम ।। वृ. आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः संक्षेपेणोच्यन्ते।
उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चित्रटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः, तस्य भार्या परासुरभूत, तनयश्चास्य रोहकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव स्वस्य स्वतनस्य च शुश्रूषाकरणायान्या समानिव्ये वधः, सा चरोहकस्य सम्यान वर्त्तते, ततो रोहकेण सा प्रत्यपादि-मातन मे त्वं सम्यग् वर्तसे ततो ज्ञास्यसीति, ततः सो सेय॑माह-रे रोहक ! किं करिष्यसि ?, रोहकोऽप्याह-तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञानय तृष्णीमतिष्ठत, रोहकोऽपि तत्कालादारभ्य गाढसञ्जाताभिनिवेशोऽन्यदा निशिसहसा पितरमेवमभाणीत्-भो भोः पितरेष पलायमानो गोहो याति, तत एवं बालकवंचः श्रुत्वा पितुराशङ्का समुदपादि-नूनं विनष्टा मे महेलेति, ततएवमाशङ्कावशात्तस्यामनुरागः शिथिलीबभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति दूरतः पुनरपास्तं शयनादि, ततः सा चिन्तयामास-नूनमिदं बालकविचेष्टितम्, अन्यथा कथमकाण्डएवैष दोषाभावे पराङ्मुखो जातः?, ततो बालकमेवमवादीत्,-वत्स?, रोहक किमिदं त्वया चेष्टितं?, तव पिता मे सम्प्रति दूरं पराङ्मुखीभूतः,
रोहक आह-किमिति तर्हि न सम्यग् मे वर्तसे!, तयोक्तम्-अत ऊर्ध्वं सम्यग् वर्त्तिव्ये, ततो बालक आह-भव्यं, तहि मा खेदं कार्षीः तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽप्यन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदाय बालभावं प्रकटयन् निजच्छायामंगुल्यग्रेण दर्शयन् पितरमेवाह-भोः पितरेष गोहो याति गोहो यातीति, तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकारं कृपाणमुद्गीर्य प्राधावत्, रे कथय कुत्र यातीति ?, ततः स रोहको बालको बालक्रीडां प्रकटयन्नंगुल्यग्रेण निजच्छायां दर्शयति-पतिरेष गोहो यातीति, ततः स पिता वीडीत्वा प्रत्यावृत्य चिन्तयति स्म च स्वचेतसि-प्राक्तनोऽपि पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तककालं कृतमस्यां भार्यायामिति पश्चात्तापाद्गाढतरमस्यामनुरक्तो बभूव, सोऽपिरोहको मया विप्रियं कृतमास्तेऽ(मस्त्य)स्या इति कदाचिदेषां मां विषादिना मारयिष्यतीति विचिन्त्य सदैव पिता सह भुंक्ते न कदाचिदपि केवलः, अन्यदा पित्रा सहोज्जयिनी पुरीमगमत्, दृष्टा च तेन त्रिदशपुरीवोज्जयिनी, सविस्मचेतसा च सकलाऽपि यथावत्परिभाविता, तत: पित्रैव सह नगर्या निर्यातुमारेभे,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org