________________
मूलं-९४ तस्तथाप्रवत्ते, किन्तु यथाकथञ्चिद, अतस्तं अज्ञाने, तथा ज्ञानफलाभावात, ज्ञानतस्य हि फलं हेयस्य हानि: उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धयमस्ति न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च परमार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमास्वातिवाचक:-"ज्ञानस्य फलं विरति"रिति, सा च मिथ्यादृष्टर्न विद्यते इति ज्ञानफलाभावादज्ञाने मिथ्याष्टेमतिश्रुते, तथा चामूनेवाज्ञानत्वे हेतून् भाष्यकृदपि पठति
"सयसयविसेसणाओ भवहेउजहिच्छिओवलंभाओ।
नाणफलाभावाओ मिच्छद्दिटिस्स अन्नागा !" इहमतिपूर्वं श्रुतमित्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति
मू.(१५)से किं तं आभिनिबोहिअनाणं?, आभिनिबोहियनाणं दुविहं पन्नत्तं, तंजहासुयनिस्सियं च अस्सुयनिस्सिअंच॥ किं तं असुअनिस्सिअं?, असुअनिस्सिअं चउब्विहं पन्नत्तं, तंजहा
वृ. 'से कि त'मित्यादि, अथ किं तदाभिनिबोधिकज्ञानं?, सूरिराह-आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- श्रुतनिश्रितं च अश्रुतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षायोपशमभावात एवमेव यथावस्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमात्पत्तिक्यादि, तथा चाह भाष्यकृत
"पुव्वं सुअपरिकम्पियमइस्स जं संपर्य सुयाईयं ।
तन्निस्सियमियरं पुण अनिस्सियं मइचउक्कं तं ।।" आह- औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोऽनयोविशेषः?. उच्यते, अवग्रहादिरूपमेव, परंशास्त्रानुसारमन्तरेणोत्पद्यते इति भेदोनोपन्यस्तं॥ तत्राल्पतरवक्तव्यत्वात प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह- 'से किंत'मित्यादि, अथकितत् अश्रुतनिश्रितं?, सूरिराहअश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा 'उप्पत्तिआ गाहा, मू. (९६) उप्पत्तिआ १ वेणइआ र कम्मया ३ परिणामिआ४ ।
बुद्धी चउब्विहा वुत्ता, पंचमा नोवलब्भइ ।। वृ.(१६) उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य प्रयोजन'मितीकन्, ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यतेउत्पत्तिरेव प्रयोजनमभ्या इति ?, उच्यते, क्षयोपमशः सर्वबुद्धिसाधारणः, ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्धन्तराभेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनीमित्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा।
तथा विनयो-गुरुशुश्रूषा सप्रयोजनमस्या इति वैनयिकी।
तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता कर्मजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org