________________
१३८
नन्दी-चूलिकासूत्रं लाभः स इह गृह्यते यः शब्दार्थपर्यायलोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभ: श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिद्दोषः ।
इतश्च मतिश्रुतयोर्भेदो-वल्कसमं मतिज्ञानं, कारणत्वात्, शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात्, ततो यथा वल्कशुम्बयोर्भेदस्तथा मतिश्रुतयोरपि। इतश्च भेदो-मतिज्ञानमनक्षरंसाक्षरंच, तथाहिअवग्रहज्ञानमनक्षरं, तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निविकल्पकत्वाद, ईहादिज्ञानं साक्षरं, तस्य परामर्शादिरूपतयाऽवश्यं वर्णारुषितत्वात्, श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोचनस्यानुपपत्तेः।
इतश्च मतिश्रुतयोर्भेदो- मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात्, अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वान्, तथा चामूनेव भेदहेतून् भाष्यकृत् संगृहीतवान्
"लक्खणभेया हेऊफलभावा भेयइंदियविभागा।
वागक्खरमयेयरभेया भेओ मइसयाणं॥" यथा च मतिश्रुतयोः कार्यकारणभावात् मिथो भेदः तथा सम्यग्दर्शनमिथ्यादर्शनपरिग्रहभेदात् स्वरूपतोऽपि तयोः प्रत्येकं भेदः, तथा चाह
मू. ( १४.)अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ सम्मद्दिहिस्स मई मइनाणं मिच्छदिगुस्स मई मइअन्त्राणं, अविसेसिअंसुयं सुयनाणं च सुयअन्नाणं च, विसेसि सुयं सम्मदिहिस्स सुयं सुअनाणं मिच्छद्दिहिस्स सुअंसुयअन्नाणं ।।
वृ.स्वामिना अविशषिता-स्वामिविशेषपरिग्रहमन्तरेण विवक्ष्यमाणामतिर्मतिज्ञानं मत्यज्ञानं चोच्यते, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषता-स्वामिना विशेष्यमाणा सम्यग्दृष्टेर्मतिर्मतिज्ञानमुच्यते, तस्या यथावस्थितार्थग्राहकत्वात्, मिथ्यादृष्टेमतिर्मत्यज्ञानं, तस्य एकान्तावलम्बितया यथावस्थितार्थग्रहणाभावात्, एवं श्रुतसूत्रमपि व्याख्येयं ।
आह-मिथ्यादृष्टेरपिमतिश्रुते सम्यग्दृष्टेरिव तदावरणक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिव च पृथुबुध्नोदराद्याकारं घटादिकं च संविदाते तत्कथं मिथ्यादृष्टेरज्ञाने ? उच्यते, सदसद्विवेकपरिज्ञानाभावात्, तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरस्सरं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या, ततो घट एवायमिति सदा ब्रूते तदा तस्मिन् घटेघटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घटएवायमित्येकान्तेनाबधारणानुपपत्तेः, घट: सत्रेवेति च ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते, ततः सन्तभसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेमतिश्रुते, इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात्, तथाहि
मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी, तथा यदृष्छोपलम्भादुन्मत्तकविकल्पवत्, यथा हि उन्मत्तकविकल्पावस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्त्तमानत्वात्, परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्यादावधारणाध्यवसायभावे सवादिनी तथापि न ते स्याद्वादमुद्रापरिभावना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org