SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मूलं - ९७ १४१ पिता च किमपि मे विस्मृतमिति रोहकं सिप्रानदीतटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरीं प्राविशत्, रोहकोऽपि च तत्र सिप्राभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरीं सिकताभिरालिखत्, इतश्च राजा अश्ववाहनिकायामश्वं वाहयान् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तं च स्वलिखितनगरीमध्येन समागच्छन्तं रोहको ऽवादीत् - भो राजपुत्र ! माऽनेन पथा समागम:, तेनोक्तं किमिति ?, रोहक आह- किं त्वं राजकुलमिदं न पश्यसि ?, स राजा कौतुकवशात् सकलामपि नगरीं तदालिखितामवेक्षत, पप्रच्छ च तं बालकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन्न वा ?, रोहक आह- नैव कदाचित् केवलमहमद्यैव स्वग्रामादिहागतः, ततश्चिन्तयामास राजा - अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहकोवत्स ! किं ते नाम क्क वा ग्राम इति ?, तेनोक्तं- रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्राम वसामीति, अत्रान्तरे समागतो रोहकस्य पिता, चलितौ च स्वग्रामं प्रति द्वावपि, A राजा च स्वस्थानमगमत्, चिन्तयति स्म च ममैकोनानि मन्त्रिणां पञ्च शतानि विद्यन्ते, तद्यदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनान्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान् यथा युष्मद्ग्रामस्य बहिरतीव महती शिला वर्त्तते तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्त्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स्म परस्परंकिमिदानीं कर्त्तव्यं ?, दुष्टो राजादेशो ऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषा मध्यन्दिनमागतं, रोहकश्च पितरमन्तरणे न भुंक्ते, पिता च ग्राममेलापके मिलितो वर्त्तते, ततः स क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्ततपीडितोऽहमतीव क्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह वत्स ! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि स प्राह-पितः ! किं किं तदिति ?, - ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात्, झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं- माऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचित्तमण्डनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नः, गतः सर्वोऽपि ग्रामलोकेः स्वस्वगृहे भोजनाय भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूणो मण्डपः, कृता च शिला तस्याच्छादनं, निवेदितं च राज्ञे राजनियुक्तैः पुरुषै:-देव ! निष्पादितो ग्रामेण देवादेशः, राजा प्राह- कथमिति !, ततस्ते सर्वमपि मण्डप - निष्पादनप्रकारं कथमायासुः, राजा प्रपच्छ- कस्येयं बुद्धि: ?, तेऽवादिषुः - देव ! भरतपुत्रस्य रोहकस्य, एषा रोहकस्यौत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि संविधानकेषु योजनीयं, ततो भूयोऽपि राजा रोहकबुद्धिपरीक्षार्थं मेण्ढकमेकं प्रेषितवान्. एष यावत्पलप्रमाणः सम्प्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधीक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy