________________
मूलं - ८९
}
'अह देसनाणंदसणविगमे तव केवलं मयं नाणं न मयं केवलदंसणमिच्छामित्तं ननु तवेदं ॥ '
अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शनमिति, अत्राह - ननु तवेदमिच्छामात्राम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्वर्थेषु सिद्धिप्रसक्ततेः, यदप्युक्तं 'न चैतदपि समीचीनमित्यादि' तदपि न समीचीनं, क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानवरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात्, अथोच्येत "दव्वतो णं केवलनाणी सव्वदव्वाई जाणइ पासइ" इत्यादि सूत्रं केवलज्ञानकेवलदर्शनाभेदप्रतिपादनपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयोरभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यते इति ?, 'भन्नइ जहोहिनाणी जाणइ पासइ य भासियं सुत्ते । न य नाम ओहिदंसणनाणेगत्तं तह इहंपि ॥'
'भण्यते' अत्रोत्तरं दीयते यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भाषितं, तदुक्तं"दव्वओ णं ओहिनाणी उक्कोसेणं सव्वाई रूविदव्वाई जाणइ पासइ" इत्यादि, न च तथा सूत्रे भाणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरेकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः, प्रवृत्तेः अपि च-जानाति पश्यति चेति द्वावति शब्दावेकार्थौ न भवतो, नापि तत्र सूत्रे एकाधिकवक्तव्यताधिकारः, किन्तु सामान्यविशेषविपयाधिगमाधिधानपरौ । ततश्च -
"
-
१३३
'जह पासइ तह पासउ पासइ जेणेह दंसणं तं से। जाणइ जेणं अरिहा तं से नाणंति धेतव्वं ॥
'यथा' येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एवावत्तु वयं ब्रूमो - येन सामान्यावगमाकारेणार्हन् पश्यति तद्दर्शनमितिज्ञातव्यं, येन पुनर्विशेषावगमरूपेणाकारेण जानाति तत् 'से' तस्यार्हतो ज्ञानमिति, न च युगपदुपयोगद्वयं, अनकेशः सूत्रे निषेधात्, ततः क्रमेण भगवतो ज्ञानं दर्शनं चेति । एतदेव सूत्रेण दर्शयति
Jain Education International
"नाणंमि दंसणंमि व एत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा ॥"
ज्ञाने तथा दर्शने वाशब्दो विकल्पार्थः, अनयोरेककालम् एकतरस्मिन् कस्मिश्चिदुपयुक्ताः केवलिनो, न तु द्वयोः यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगौ न स्त इति । तस्मादेत्सूत्रबलादपि क्रमेण ज्ञानं दर्शनं च सिद्धं । अपि च
'उवओगो एयरो पणवीसइमे सए सिणायस्स ।
भणियो विडत्थयोच्चिय छट्टुद्देसे विसेसेणं ॥ '
भगवत्यां पञ्चविंशतितमे शते अध्ययनापरपर्याये षष्ठोद्देशके स्त्रावकस्य केवलिनो 'विशेषेण' विशेषत: एकतर उपयोगो भणितः, तत्कथमेवमागमार्थमुपलभ्यात्मानं विप्रलम्भेमहि ? | साम्प्रतं सिद्धान्तवाद्येव जिनभद्रगणिक्षमाश्रमण आत्मनोऽद्धतत्वमागमभक्तिं च परां
ख्यापयन्नाह-
For Private & Personal Use Only
www.jainelibrary.org