________________
नन्दी-चूलिकासूत्रं 'भन्नइ न एस नियमो जुगवुप्पनेण जुगवमेवेह ।
होयव्वं उवयोगेण एत्थ सुण ताव दिटुंतं ।। 'भण्यते' अत्रोत्तरं दीयते, न एपनियमो यदुतशक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेह उपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात्, आह च- एत्थ सुण ताव दिटुंत' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तं । तमेव दर्शयति -
'जह जुगवुप्पत्तीएऽवि सुत्ते सम्मत्तमइसुयाईणं ।
नत्थि जुगवोवओगो सव्वेसु तहेव केवलिणो।' यथा सम्यक्त्वमतिश्रुतादीनाम्, आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तावपि 'सूत्रे' आगमेऽभिहितायां न सर्वेष्वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवओगा' इति वचनप्रामाण्यात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवार्थं सूत्रेण संवादयन्नाह
'भणियं चिय पन्नत्तीपन्नवणाईसु जह जिनो समयं ।
____जं जाणइ नवि पासइ तं अनुरयणप्पभाईणं ।' भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु-यथा यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति, अनुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयार्थे षष्ठी, ततः क्रमेणैव केवलज्ञानकेवलदर्शनयोरुपयोगो न युगपदिति स्थितं। साम्प्रतं ये केवल-ज्ञानकेवलदर्शनाभेदवादिनस्तन्मतकमुपन्यस्यन्नाह
'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिने ।
उभयावरणातीते तह केवलदंसणस्सावि॥' यथा 'किले'-त्याप्तोक्तौ क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेवलदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः । कमिति चेदुच्यते-इह तावद् यगुपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न
चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तद्भावप्रसङ्गात्, तत: केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तदभावप्रसङ्गात्, ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानंचकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिषुरिदमाह
'देसन्नाणोवरमे जह केवलनाणसंभवो भणिओ।
देसइंसणवि गमे तह केवलदंसणं होऊ।।' यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः स्वरूपेण भणितस्त्वया तथा चक्षुद्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् स्वरूपतो भवतु, न्यायस्य समानत्वात्, अन्यथा पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org