________________
नन्दी-चूलिकासूत्रं 'कस्स व नाणुमयमिणं जिनस्स जइ होज्ज दोन्नि उवयोगा।
ननं न होंति जगवं जओ निसिद्धा सुए बहुसो॥' निगदसिद्धत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमःमू.(९०) अह सव्वदचपरिणामभावविण्णत्तिकारणमणतं।
सासयमप्पडिवाइ एगविहं केवलं नाणं ।। वृ.अथशब्द इहोपन्यासार्थः, पूर्वमुद्देशसूत्रे मन:पर्यवज्ञानानन्तरं केवलज्ञानमुक्तं, तत्सम्प्रति तात्पर्यनिर्देशार्थमुपन्यस्यते इत्यर्थः, सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणिजीवादिलक्षणानि, तेषां परिणामाः-प्रयोगविखसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भावःसत्ता स्वलक्षणं स्वं स्वमसाधारणं रूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, तस्याः कारणं-हेतः सर्वद्रव्यपरिणामविज्ञप्तिकारणं केवलज्ञानमिति सम्बध्यते,
"सव्वदव्वाण पओगवीससामीसया जहाओगं ।
परिणामा पज्जाया जम्मविनासादओ नेओ ।। तेसि भावो सत्ता सलक्खणं वा विसेसओ तस्स।
नाणं वित्तीए कारणं कवंले नाणं ।" तच्च ज्ञेयानन्तरत्वादनन्तं, तथा शश्वद्भवंशाश्वतं. सदोपयोगवदिति भावार्थ:, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थायीत्यर्थः, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन?, तदयुक्तं, सम्यक्शब्दार्थापरिज्ञानात्, शाश्वतं हि नाम अनवरतं भवदुच्यते, तच्च कियत्कालमपि भवति, यावद्भवति तावन्निरन्तरं भवनात्, ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, ततोऽयं तात्पर्यार्थः - अनवरतं-सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषविशेष्यभावो भवतीति ज्ञापनार्थं विशेषणद्वयोपादानं, तथाहि-शाश्वमप्रतिपात्येव अप्रतिपाति तु शाश्वतमशाश्वतं च भवति, यथा अप्रतिपातित्यवधिज्ञानमिति। __ तथा एकविधम्-एकप्रकार, तदावरणक्षयस्यैकरूपत्वात्, केवलंच तज्ज्ञानं च (केवलज्ञान) । इह तीर्थकृत् समुपजातकेवलालोकस्तीर्थकरतामकर्मोदयतः तथास्वाभाव्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाञ्चिदेवमाशङ्का भवेद् भगवतोऽपि तीर्थकृतस्तावद्रव्यश्रुतं ध्वनिरूपं वर्तते, द्रव्य श्रुत च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाहमू. (११) केवलनाणेणऽत्थे नाउं जे तत्थ पत्रवणजोगे।
ते भासइ तित्थयरो वइजोग सुअं हवइ सेसं॥ वृ.इह तीर्थंकर: केवलज्ञानेन 'सर्वं वाक्यं सावधारण'मिति न्यायात्, केवलज्ञानेनैव, न श्रुतज्ञानेन, तस्य क्षयोपशमिकत्वात्, केवलिनश्च क्षायोपशमिकभावातिकमात्, सर्वक्षये देशक्षयाभावादिति भावः, अर्थान्-धर्मास्तिकायादी अभिलाप्यानभिलाप्यान् ‘ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषामर्थानामभिलप्यानभिलप्यानां मध्ये प्रज्ञापनायोग्याः अभिलाप्या इत्यर्थः, तान् भाषते, नेतरान्, तानपि प्रज्ञापनायोग्यान् भाषते, न सर्वान्, तेषामनन्तत्वने सर्वेषां भाषितुम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org