________________
१२८
नन्दी-चूलिकासूत्रं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्ररगुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्रत्रयसम्पद्योग्या, ततस्तासां न निर्वाणाभावः। ___ अति च-भुजपरिसप्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति, न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः अथ च सर्वेऽप्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैपम्यदर्शनादूर्द्धगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुल्लिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा एकसिद्धा इति एकस्मिन् २ समये एककाः सन्तो ये सिद्धास्ते एकसिद्धाः, अनेगसिद्धा इति' एकस्मिन् समये अनेके सिद्धा: अनेकसिद्धा: अनेके चैकस्मिन् समये सिध्यन्त उत्कषर्तोऽष्टोत्तरशतसङ्घया वेदितव्याः।। __ आह-ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानमुच्यते?, सत्यम्, अन्तर्भवन्ति परंन तीर्थसिद्धातीर्थसिद्धभेदद्योपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयांस इति शेषभेदोपादानं।
मू.(८८)से किंतं परम्परसिद्धकेवलनाणं?, परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखिज्जसमयसिद्धा असंखिज्जसमयसिद्धा अनंतसमयसिद्धा, से तं परंपरसिद्ध केवलनाणं, से तं सिद्धकेवलनाणं॥
वृ.'से किं तं परम्परसिद्धकेवलनाणमि'त्यादि, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्रथमसमयवर्तिनः सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः,स्त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषणे व्याचष्टे-द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्तमि'-त्यादि निगमनं'
मू.(८९)तं समासओ चउव्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खितं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ।
वृ.'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्ततद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'णमिति' वाक्याल-ङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं-लोकालोकभेदभिन्न जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपी गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमअतीतानागतवर्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org