________________
मूलं-८७
१२७ भाव्य धाथिना शिरसि वस्त्र परिक्षिते तस्य सपरिग्रहता भवेत्न चेतदिष्ट, तस्मान्नं संसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते, नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादिकं कर्तु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्र परिभुञ्जाना न ताः परिग्रहवत्यः, अथोच्येतसम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तं, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरलत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणामिति, तदप्युक्तम्, स्त्रीषुरनत्रयप्रकासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमानं वा प्रमाणं विज़म्मते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात, नापि तास रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, यथ मन्येथाः,-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नप्रकर्षः ततस्तदसम्भवोऽनुमीयते, तदयुक्तं, युक्तिविरोधात्, तथाहि
रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिप्रदप्राप्तिः, सचायोग्यवस्थाचरमसमये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगति: ?, न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते, मा प्रापत् पुरुषेप्वतिप्रसङ्गः, ननुजगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलत: सिद्धं, सर्वोत्कृष्टेचद्वे पदे-सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, ततः परमन्यस्य सुखस्थानस्यासम्भवात्, ततः स्त्रीणां सप्तनरकपृथिवीगमनमागमे निपिद्ध, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमननिषेधादवसीयते-नास्ति स्त्रीणां निर्वाणं, निर्वाणहेतोः तथारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्यासम्भवात्, तथा चात्र प्रयोगः असम्भवनिर्वाणा स्त्रियः, सप्तमपृथिवीगमनत्वाभावात्, सम्मच्छिमादिवत्, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते? निःश्रेयसमपि प्रति पासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात्, अथ सम्मूच्छिमादिषुभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः, ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते?, न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबंधो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभावप्रतिबन्धतः सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेरणैव निर्वाणागमनभावात्, न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवंतहि कथं सम्मुच्छिमादिषुनिर्वाणगमनाभाव इति?, उच्यते, तथाभवस्वाभाव्यात्, तथाहि-ते सम्मूच्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत् प्रतिपत्तुं
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org