________________
१२६
नन्दी - चूलिकासूत्रं
तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूण्णिकृत्पुव्वाधीतं से सुयं हवइ वा न वा, जइ से नत्थि तो लिंगं नियमा गुरुसन्निहे पडिवज्जइ, गच्छे य विहरइत्ति, अहवा पुव्वाधीतसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ, जइ य एगविहारविहरणजोगो इच्छा वा से तो एक्को चेव विहरइ, अन्नहा गच्छे विहरइ' त्ति ।
प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद्भवति, तथा चाह चूण्णिकृत् - "पत्तेयबुद्धाणं पुव्वाधीतं सुयं नियमा भवइ, जहन्त्रेणं एकारस अंगा, उक्कोसेणं भिन्नदसुपूत्री, लिंगं च से देवया पयच्छइ लिंगवज्जिओ वा भवति, जतो भणियं'रूप्पं पत्तेयबुद्धा' इति" तथा बुद्धा: - आचार्यास्तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः स्त्रिया लिङ्गं स्त्रिलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा, तद्यथा- - वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृत्त्या प्रय्जनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभात्, नेपथ्यस्य चाप्रमाणत्वात्, आह च चूण्णिकृत् -" इत्थिए लिंगं इत्थि - लिंग, इथिए उवलक्खणंति वृत्तं भवति, तं च तिविहं वेयो सरीरनिवत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो, न वेयनेवत्थेहिं "ति ।
तस्मिन् स्त्रीलिङ्गे वर्त्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः एतेन यदाहुराशाम्बराः-न स्त्रीणां निर्वाणामिति, तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् तत्प्रतिषेधस्य च युक्तयनुपपन्नत्वात्, तथाहि मुक्तिपथो ज्ञानदर्शनचारित्राणि, “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहिदृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं परिपालयन्ति च सप्तदशविधमकलङ्कं संयमं धारयन्ति च देवसुराणामपि दुर्द्धरं ब्रह्मचर्यं तप्यन्ते च तपांसि मासक्षमणादीनि ततः कथमिव तासां न मोक्षसम्भवः ?, स्यादेतद्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्,
तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वस्त्र परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं, सम्यक् सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्च्छाऽभिधीयते, 'मुच्छा परिग्गहो वृत्तो' इति वचनप्रामाण्यात्, तथाहि मूर्च्छारहितो भरतचक्रवर्ती सान्तः पुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपिच
-
Jain Education International
,
यदि मूर्च्छाया अभावेऽपि वस्त्र संसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्त साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्य शीतमिति वि
For Private & Personal Use Only
www.jainelibrary.org