SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मूलं-८९ १२९ भावान्-गतिकपायागुरुलघुभृतीन् जानाति पश्यति । इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां । क्रमोपयोगादिविषया सूरीणामनेकधा विप्रतिपत्तिः, सा चूर्णिणकृता मूलटीकाकृता च दर्शिता, ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां प्रदर्शयाम: 'केई भणंति जुगवं जाणइ पासइ य केवली नियमा। ___ अन्ने एगंतरियं इच्छंति सुओवएसेणं ॥ अन्ने न चेव वीसुंदंसणमिच्छंति जिनवरिंदस्स। जं चिय केवलनाणं तं चिय से दंसणं विति ।।' 'केचन' सिद्धसेनाचार्यादयो 'भणंति' ब्रूवते, किमित्याह-'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति?, आह-एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति?, अत आह-श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । अन्ने' इत्यादि, अन्ये केचिबद्धाचायां न चैव ज्ञानदर्शनं विष्वक्-पृथगिच्छन्ति जिनवरेन्द्रस्य, जिना:- उपशान्तरागादिदोषसमूहाः तेषां वरा:-प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकम्र्माणः, क्षीणामोहा इत्यर्थः, तेषामिन्द्रो-भगवान् उत्पन्न केवलज्ञान: तस्य, नत्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुयते, क्षीणसकलाबरणस्य देशज्ञानाभावात् केवलदर्शनस्याप्यभावात्, तस्यापि वस्त्वेकदेशभूतसामान्यमात्रग्राहितया देशज्ञानकल्पत्वादिति भावना। तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतं प्रदर्श्यते 'जं केवलाई साई अपज्जवसियाई दोवि भणियाई। तो बिंति केइ जुगवं जाणइ पासइ य सव्वन्नू ।' 'यत्' यस्मात् कारणात् 'द्वे अपि' केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततो ब्रुवते केचन सिद्धसेनाचार्यादयः, किमित्याह-'युगपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे बाधामाह "इहराऽऽईनिहणत्तं मिच्छावरणक्खओत्ति व जिनस्स। _ इयरेवयरावरणया अहवा निकारणावरणं ।।" 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञानकेवलदर्शनयोः प्राप्नोति, तथाहि-उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरंकेवलज्ञानोपयोगसमये केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिध्या-अलीक: आवरणक्षयः-- केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनस्य प्राप्नोति, न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतस्वस्वावरणे ततः कथं ते क्रमेण स्वप्रकाश्यं प्रकाशयतः? क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षयेति | 30/97 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy