________________
मुलं-८६
११९ चिन्तायां सर्वेष्वपि द्वारेषु सर्वत्रवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, काल: पुनः सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान वक्तव्यम्, तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते--"परिमाणेन अनंता कालोऽणाई अनंतओ तेसिं । नत्थि य अंतरकालो"त्ति, भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्घयेयगुणाः, तथा जलसिद्धाः स्तोका: तेभ्यः स्थलसिद्धाः समयेयगुणाः, तथा ऊद्भवलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ग्येयगुणाः तेभ्योऽपि तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, उक्तं च- "सामुद्ददीव जलथल दुहं २ तु थोव संखगुणा ।
उड्डअहतिरियलोए थोवा संखागुणा संखा।" तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्य: कालोदसमुद्रसिद्धाः सङ्घयेयगुणा: तेभ्योऽपि जम्बूद्वीपासिद्धाः सवयेयगुणाः तेभ्यो धातकीखण्डसिद्धाः सङ्खये यगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः सङ्खयेयगुणा: उक्तं च
"लवणे कालोए वा जंबूद्दीवे य धायईसंडे।
पुक्खरवरे य दीवे कमसो थोवा य संखगुणा ।।" तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोका: १ तेभ्यो हैमवतऐरण्यवतसिद्धाः सङ्खयेयगुणा: २ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्घयेयगुणाः ३ तेभ्योऽपि देवकुरूत्तर- . कुरुसिद्धाः सङ्खयेयगुणाः ४ तेभ्योऽपिहरिवर्षरम्यकसिद्धाः सङ्खयेयगुणाः, क्षेत्रबाहुल्यात् ५, तेभ्योऽपि निषधनीलवतसिद्धाः सङ्ख्येयगुणाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्घयेयगुणाः, स्वस्थानन्तवात्७, तेभ्यो महाविदेहसिद्धाः सङ्खयेयगुणाः, सद्भावात् ८,
सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यते-धातकीखण्डे संहरणतो हिमवशिखरिसिद्धाः सर्वस्तोका: १ तेभ्यो महाहिमवद्रुक्मिसिद्धाः संख्येयगुणा: २ तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगणा: ३ तेभ्योऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः ४ तेभ्यो देवकुरूत्तरकुरुसिद्धाः सङ्घयेयगुणा: ५ तेभ्योऽपि हरिवर्षरम्यकसिद्धा विशेषाधिका: ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्घयेयगुणा: ७ तेभ्योऽपि महाविदेहसिद्धाः सङ्घयेयगुणाः ८,
तथा पुष्करवरद्वीपाढे हिमवच्छिखरिसिद्धाः सर्वस्तोका: १ तेभ्योऽपि महाहिमवद्रुविमसिद्धाः सङ्घयेयगुणा: २ तेभ्योऽपि निषधनीलवत्सिद्धाः सङ्घयेयगुणा: ३ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः ४ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणा: ५ तेभ्योऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिका: ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणा: ७, स्वस्थानमितिकृत्वा, तेभ्योऽपि महाविदेहसिद्धाः सङ्घयेयगुणाः, क्षेत्रबाहुल्यात् स्वस्थानाच्च ८,
सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धिाः १ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्घयेयगुणा:२ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्खयेयगुणाः ३ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्खयेयगुणाः ४ तेभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणा: ५ तेभ्योऽपि निषधनीलवत्सिद्धाः सङ्खयेयगुणाः ६ तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धाः सङ्खयेयगुणाः स्वस्थाने तु परस्परं तुल्या: ७ ततो धातकीखण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org