________________
११८
नन्दी-चूलिकासूत्रं लिङ्गद्वारे-स्वलिङ्गादिषु सर्वेष्वपि जघन्यत एक: समयोऽन्तरं उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्ष,
चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणांच किञ्चिदूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येक: समयः,
बुद्धद्वारे-बुद्धबोधितानामुत्कर्षतोऽन्तरंसातिरेकं वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सङ्खयेयानि वर्षसहस्राणि, स्वयम्बुद्धानांपूर्वसहस्रपृथक्त्वं, जघन्यतः पुनः सर्वत्रापि समयः,
'बुद्धेहि बोहियाणं वासहियं सेसयाण संखसमा।
पुव्वसहस्सपुहुत्तं होइ सयंबुद्ध समइयरं ।।" 'समइयरमिति' इतरज्जधन्यमन्तरं समयः, ज्ञानद्वारे-मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्योपमासङ्खयेयभागः, मतिश्रुतावधिज्ञानिनां साधिकं वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुतावधिमन:पर्यायज्ञानिनां चसङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारेजघन्यायामृत्कृष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसङ्घयेयभाग: अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासङ्खयेयभागः, सङ्घयेयकालप्रतिपतितानामसङ्घयेयकालप्रतिपतितानां च सङ्घयेयानि वर्षसहस्राणि, अनन्तकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च
"उयहिअसंखो भागो अप्पडिवडियाण सेस संखसमा।
वासमहियमनंते समओ य जहन्नओ होइ।।" अन्तरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्य्तां गणनाद्वारे एककानानेकेषां च • सिध्यतामुत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि समयः।
गतमन्तरद्वारं, सम्प्रति भावद्वारं-तत्र सर्वेष्वपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमाना: सिध्यन्तीति? उत्तरं क्षायिके भावे, उक्तं-'खेत्ताइएसु पुच्छा वागरणं सव्वहिं खइए' ___ गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वार-तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकदौ च चतुष्काः सिध्यन्ति ये च हरिवर्षादिषु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति दश दश सिध्यन्ति ते परस्परंतुल्याः, तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात्, तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीषु दुष्षमायामेकतमस्मिन् विजये वा प्राप्यमाणत्वात्, तथा चोक्तं- "वीसगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चउरो। दसगेहितो थोवा" तेस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धैस्तुल्याः, यदुक्तं-"वीसपुहुत्तं सिद्धा सव्वाहोलोगबुद्धीबोहियाइ अओ वीसगेहिं तुला" क्षेत्रकालयोः स्वल्पत्वात् कादाचित्कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सोयगुणाः, उक्तं च
"चउ दसगा तह वीसा वीसपुहुत्ता य जे य अट्ठसया।
___ तुला थोवा तुल्ला संखेज्जगुणा भवे सेसा॥" गतमल्पबहुत्वद्वारं, कृताऽनन्तरसिद्धप्ररूपणा, सम्प्रति परम्परसिद्धप्ररूपणा क्रियते-तत्र सत्पदप्ररूपणा पञ्चदशस्वपि क्षेत्रादिषु द्वारेष्वनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाणFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International