SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ नन्दी - चूलिकासूत्रं महाहिमवद्रुक्मिपुष्करवरद्वी पार्द्धहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः, स्वस्थाने तु चत्वारोऽपि परस्परं तुल्याः ८ ततो धातकीखण्डनिषधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवदुक्मिसिद्धाश्च सङ्घयेयगुणाः स्वस्थाने तु परस्परं तुल्याः ९ ततो धातकीखण्डहैमतैरण्यवतसिद्धा विशेषाधिकाः १० तेभ्योऽपि पुष्करवरद्वीपार्द्धनिषधनीलवत्सिद्धाः सङ्ख्येयगुणाः ११ ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १२ तेभ्योऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः १३ ततः पुष्करवरद्धीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः १४ तेभ्योऽपि पुष्करवरद्वीपार्द्धे एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १५ तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशेपाधिका: १६ तेभ्योऽपि जम्बूद्वीप भरतैरावतसिद्धाः सङ्ख्येयगुणाः १७ तेभ्योऽपि धातकीखण्डसत्क भरतैरावतसिद्धाः सङ्ख्येयगुणाः १८ तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः १९ तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः सङ्ख्येयगुणाः २० ततो धातकीखण्डविदेहसिद्धाः सङ्ख्येयगुणाः २१ ततोऽपि पुष्करवरद्वीपार्द्धे विदेहसिद्धाः सङ्ख्येयगुणाः २२, इदं च क्षेत्रविभागेनाल्पबहुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वारं, अधुना कालद्वारं तत्रावसप्पिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः इतो दुष्पमासिद्धाः सङ्ख्यगुणाः, तेभ्यः सुषमदुष्पमासिद्धा असङ्ख्येयगुणाः, कालस्यासङ्ख्येयगुणत्वात्, तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः, तेभ्यो ऽपि सुषमसुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, उक्तं चं " "अइदूसमाइ थोवा संख असंखा दुवे विसेसहिया | दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा || एवमुत्सपिण्यामपि द्रष्टव्यम्, तथा चोक्तम् 'अइदूसमाइ थोवा संखअसंखा उदुन्नि सविसेसा । दूसमसुसमा संखागुणा उ उस्सप्पिणीसिद्धा ।। " सम्प्रत्युत्सप्पिण्यवसप्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युर्तप्पण्यवसप्पिथ्योरेकान्तदुष्पमासिद्धाः सर्वस्तोकाः, तत उत्सप्पिण्यां दुष्षमासिद्धा विशेषाधिकाः, ततोऽवसप्पिण्या दुष्पमासिद्धाः सङ्ख्येयगुणाः, ततो द्वयोरपि सुषमदुषमासिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि द्वयोः सुषमासिद्धा विशेषाधीकाः तेभ्योऽपि द्वयोरपि सुषमसुषमासिद्धाः ॥ विशेषाधिकाः इति पाठः । तेभ्योऽपि द्वयोरपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसप्पिण्यां सर्वसिद्धाः सङ्ख्यगुणाः, तेभ्यो ऽप्युत्सप्पिणी सर्वसिद्धा विशेषाधिकाः, गतं कालद्वारं, सम्प्रति गतिद्वारं तत्रा मानुषीभ्यो ऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानुषेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योSपि तिर्यग्यो - निस्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्याऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च- "मनुई मनुया नारय तिरिक्खणी तह तिरिक्ख देवीओ । देवा य जहाकमसो संखेज्जगुणा मुणेयव्वा ॥" For Private & Personal Use Only १२० Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy