________________
९६
उत्तराध्ययन-मूलसूत्रम्-१-२/६८ उवहरइ धाइपिंडं अंगुलिजलणा य सादिव्वं ।। वृ. 'कोल्लयरे' कुल्लयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्रीपिण्डमंगुलिज्वलनाच्च सादेव्यमिति गाथाक्षरार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-कोल्लयरे नयरे वत्थब्बा सङ्गमथेरा आयरिया, दुब्भिक्खे तेहिं संजया विसज्जिया, तं नगरं नवभागे काऊण जंधाबलपरिहीणा विहरन्ति, नगरदेवया य तेसि किर उवसंता, तेसिं सीसो दत्तो नाम आहिंडितो, चिरेणं कालेणं उदंतवाहतो आगतो, सो तेसिं पडिस्सयं न पविट्ठो निययावासत्ति, भिक्खवेलाए उवग्गाहियं हिंडंताणं संकिलिस्सति, कुंढो सडकुलाई न दावेइत्ति, तेहि गाय, एगत्थ सिटिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया कया, मा रोवत्ति, वाणमंतरीए मुक्को,
तेहिं तुट्टेहिं पडिलाहिया जहिच्छिएणं, सो विसज्जितो, एयाणि कुलाणित्ति, आयरिया सुचिरं हिंडिऊण अंतपतंगहाय आगया, समुद्दिठ्ठा, आवस्सए आलोयणाए आलोएहि, भणतितुब्भेहिं सभं हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अह सुहमाई पिच्छहत्ति पदुट्ठो, देवयाए अड्डरते वासं अंधकारो य विगुव्वितो, एसो हीलेइत्ति, आयरिएहि भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि से नवभागे कहेंति । ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरैश्चर्यापरीषहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति । यथा चायं ग्रामादिष्वप्रतिबद्धनानिसह्यते एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धनाधिसहनीय इति तमाहमू.(६९) सुसाणे सुनगारे वा, रुक्खमूले य एगओ।
अकुक्कुए निसीएज्जा, न य वित्तासए परं।। वृ.शबानांशयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, श्वभ्यो हितमिति वाक्ये 'उगवादिभ्यो यदि'त्यत्र 'शुनः संप्रासरणं वा दीर्घत्व'मिति वचनतो यति संप्रसारणे दीर्घत्वे च शून्यम्उद्वसं तच्च तत् अगारं च शून्यागारं तस्मिन्वा, वृश्च्यत इति वृक्ष: तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, एक:' उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्यविगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, 'अकुक्कुचः' अशिष्टचेष्टारहितो 'निषोदेत् तिष्ठेत्, 'नच' नैव वित्रासयेत् 'परम्' अन्यं, किमुक्तं भवति?--
'पडिमं पडिवज्जया मसाणे, नो भायए भवभेरवाई दिस्स ।
विविहगुणतवोरए य निच्चं, न सरीरं चाभिकंखए सभिक्खू ।' इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि नस्वयं संबिभीयात्, न च विकृतस्वरमुखिकारादिभिरन्येषां भयमृत्पादयेत्, यद्वा अकुक्कुए' त्ति अकुत्कुचः कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निषीदेत्, न च 'वित्रासयेत्' विक्षोभयेत् ‘परम्' उन्दूरादि, मा भूदसंयम इति सूत्रार्थः ।।
तत्र च तिष्ठतः कदाचिदुपसग्र्गोत्पत्तौ यत् कृत्यं तदाहमू. (७०) तत्थ से चिट्ठमाणस्स, उवसग्गेऽभिधारए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org