SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२,[नि. १०५] नवरि संजयं पेच्छइ, वोलीणो, पुणो वासति-सयहसहस्संगतं, तेन सेनावइणा गंतूण पलोइओ, सब्भावं पुच्छिओ भणति-अत्थि कंबलो, गणिकाए नेमि, मुक्को गतो, तोसे दिनो, ताए चंदनिकाए छूढो, सो भणइ-मा विनासेहि, सा भणइ-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अनुसद्धि, गतो, पुणो आलोएत्ता विहरइ। । ___ आयरिएणं भणिओ-एवं दुक्करदुक्करकारओ थूलभद्दो पुव्वि खरीका(दुअक्खरिया)इच्छइ, इदानीं सड्ढी जाया, अदिट्ठदोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरति । सा गणिका रहियस्स स्ना दिना, तं अक्खाणं जहा नमोक्कारे । जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासिराल्वो, न उजहा तेन नो अहियासितोत्ति। अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीषह: सोढव्य इति तमाहम.(६७) एग एव चरे लाडे, अभिभूय परीसहे। गामे वा नगरे वावि, निगमे वा रायहानीए।। वृ. 'एक एवे'ति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम् "न या लभिज्जा निउणं सहायं, गुणाहियं वा गुणतो समं वा। एक्कोऽपि पावाई विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो॥" 'लाढे'त्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति लाढः, प्रशंसाभिधायि वा देशीपदमेतत्, पठ्यते च-'एग एगे चरे लाद'ति तत्र चैक:-असहायः प्रतिमाप्रतिपन्नादिः स चैको रागादिवैकल्याद् 'अभिभूय' निर्जित्य परिषहान्' क्षुदादीन्, क्व पुनश्चरेदित्याह-'ग्रामे' चोक्तरूपे 'नगरे वा' करविरहितसन्निवेशे 'अपि:' पूरणे 'निगमे वा' वणिग्निवासे राजधान्यां' वा प्रसिद्धायाम्, उभयत्र वाशब्दानुवृत्तेः, मडम्बाधुपलक्षणं चैतद्, आग्रहाभावं चानेनाहेति सूत्रार्थः ।। पुनः प्रस्तुतमेवाहमू.(६८) असमाणो चरे भिक्खू, नेव कुज्जा परिग्गह। असंसत्तो गिहत्थेहिं अनिकेओ परिव्वए। वृ. न विद्यते समानोऽस्य गृहिण्याश्रयामूच्छितत्वेन अन्यतीर्थकेषु वाऽनियतविहारादिनेत्यसमानः-असदृशो, यद्वा समानः-साहङ्कारो न तथेत्यसमानः, अथवा '(अ)समाणो'त्ति प्राकृतत्वादसनिवासन्, यत्रास्ते तत्राप्यसंनिहित एवेति हृदयं, सन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहति अयं तु न तथेत्येवंविधः सन् ‘चरेत्' अप्रतिबद्धविहारतया विहरेत्, “भिक्षुः' यतिः, कथमेतत् स्यादित्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्धात्मकम्, अत्राह च"गामे कुले वा नगरेव देसे, ममत्तभावं न कर्हिचि कुज्जा", इदमपि यथा स्यात्तथाह-'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिभिः 'अनिकतः' अविद्यमानगृहो, नैकत्र बद्धास्पदः, 'परिव्रजेत्' सर्वतो विहरेत्, न (ना) नियतदेशादौ गृहिसम्पर्कः, एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि ममत्वबुद्धिः, तदभावे तु निरवकाशैवेयमिति भाव इति सूत्रार्थः ।। अत्र च शिष्यद्वारमनुसरन् 'असमानो चरे' इत्यादि-सूत्रसूचितमुदाहरणमाहनि.[१०६] कोल्लयरे वत्थव्वो दत्तो सीसो अ हिंडओ तस्स। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy