________________
अध्ययनं - २, [ नि. ८६ ]
डीप स्त्री सैव
(तथा)
तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि -
त्वगुरुधिरमांसभेदत्रय्वस्थिरावणैः सुदुर्गन्धम् । कुचनयनजघनवदनोरुमूच्छितो मन्यते रूपम् ॥१॥ निष्ठिवितं जुगुपसत्यधरस्थं पिबति मोहितः प्रसभम्। कुचजघनपरिश्रावं नेच्छति तम्मोहितो भजने ॥ २ ॥
७७
इत्यादि भावनातोऽपिभिधास्यमाननीतितश्च परिषह्यमाणत्वात्परीषहः स्त्रीपरीषहः ८, चरणं चर्या - ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चर्यापरीषहः ९, निषेधनं निषेधः पापकर्म्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिकी- स्मशानादिका स्वाध्यायादिभूमिः निषेद्येतियावत् सैव परीषहो नैषेधिकीपरीषहः १०, तथा शेरतेऽस्यमिति शय्या- उपाश्रयः सैव परीषहः शय्यापरीषहः ११, आक्रोशनमाक्रोशः -असत्य भाषात्मकः स एव परोषहः आक्रोशपरीषहः १२, हननं वध:-ताडनं स एव परीषहो वधपरीषहः १३, याचनं याज्वा प्रार्थनेत्यर्थः, सैव परी : याञ्चापषो १४, लभनं लाभो न लाभोऽलाभः - अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीषहः १५, रोग: - कुष्ठादिरूपः स परीषहो रोगपरीषहः १६, तरन्तीति तृणानि, औणादिको नक् ह्रस्वत्वं च तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः १७, जल्ल इति मलः स एव परीषहो जल्लपरीषहः १८,
सत्कारोवस्त्रादिभिः पूजनं पुरस्कार:- अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिहसत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः ततास्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः अज्ञानपरीषहञ्च प्राग्भावितार्थी, नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा- स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं - सामान्येन मत्यादि तदभावोऽज्ञानं २० - २१, दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रतम श्रवणेऽपि सम्यक् परीषह्यमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शन परीषहः २२ ।। इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽवक्ष्यतेमू. (५०) परीसहाणं पविभत्ती, कासवेण पवेइया ।
तं भे उदाहरिस्स्मि, आनुपुव्वि सुणेह मे ॥
वृ. 'परीषहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः ' प्रकर्षेण-स्वरूपसम्मोहाभावलक्षणेन विभागः पृथक्ता 'काश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत्, 'प्रवेदिता' प्ररूपिता 'ता' मिति काश्यप प्ररूपितां परीषहप्रविभक्तिं 'भे' इति भवताम् 'उदाहरिष्यामि' प्रतिपादयिष्वामि' 'आनुपूर्व्या' क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरतः, शिष्यादरख्यापनार्थं च काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थ: ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाहमू. (५१) दिगिंछापरियावेण, तवस्सी भिक्खु थामवं ।
न छिंदे न छिंदावए, न पए न पयावए ।
वृ. दिगिञ्छा - उक्तरूपा तया परिताप:- सर्वाङ्गीणसन्तापो दिगिञ्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ तृतीया, पाठान्तरं 'दिगिछापरिगते' बुभुक्षाव्यासे 'देहे' शरीर सति, तपोऽस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org