________________
७८
उत्तराध्ययन-मूलसूत्रम्-१-२/५१ स्तीति अतिशायने विनिस्तपस्वीविकृष्टाष्टमादितपोऽनुष्ठानवान्, स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीदृक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान्, भूम्नि प्रशंसायां वा मतुप्प्रत्ययः,अयं च किमित्याह-'न छिन्द्यात्न द्विधा विदध्यात्, स्वयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत, उपलक्षत्वाच्च नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च स्वयं क्रीणीयात्, नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्पपीडितोऽपिन नवकोटीशुद्धिबाधां विधत्ते इति गाथार्थः ।। मू. (५२) कालीपव्वंगसंकासे, किसे धमणिसंतए।
मत्तन्नोऽसनपानस्स, अदीनमनसो चरे॥ वृ.काली-काकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूर्परादीनि येषु तानि कालीपर्वाणि, उष्ट्रामुखीवन्मध्यपदलोपी समासः, तथाविधैरङ्गैः-शरीरवायवैः सम्यक्काशते-तप:श्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्यातन्त्रवाद्ग्रामो दग्ध इत्यादिवत् अवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाच्चाङ्गसन्धीनामपि कालीपर्वसदृशतायां कालीभिः सङ्काशानि सदृशान्यङ्गानि यस्य स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः' कृशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपां जानाति इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याहअश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरादि अनयोः समाहारेऽशनपानं तस्य, तथा 'अदीनमनसो'त्ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः 'चरेत्त' संयमाध्वनि यायात्, किमुक्तं भवति ?, अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं क्षुत्परिषह्यमाणा क्षुत्परोषहः सोढो भवतीति सूत्रार्थः । सम्प्रति प्रागद्वारगाथोपक्षिप्तं सूत्रस्पर्श इति त्रयोदशद्वारंव्याचिख्यासुः सूत्रस्पर्शिकनियुक्तिमाह-'सुत्तफासे य'त्ति । तथानि.[८७] कुमारए नई लेणे, सिला पंथे महल्लए।
तावस पडिमा सीसे, अगनि निव्वेअ मुग्गरे।। नि.[८८] वने रामे पुरे भिक्खे, संथारे मल्लधारणं।
अंगविज्जा सुए भोमे, सीसस्सागमने इय॥ वृ.तत्र सूत्रस्पर्शश्चेति द्वारोपक्षेपः, कुमारइत्यादिना च तद्वर्णनं स्पष्टमेव, नवरंकुमारकादिभिः, प्रत्येकं द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः क्षुल्लकः, 'लेणं'तिलयनं गुहा 'महल्लए'त्ति आर्यरक्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किञ्चिदधिकगाथाद्वयार्थः । इदानीं नियुक्तिकारएव 'न छिन्दे' इत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिप्तं च क्षुत्परिषहोदाहरणमाहनि.[८९] उज्जेनी हस्थिमित्तो भोगपुरे हत्थिभूइखुड्डो अ।
अडवीड वेयणट्टो पाओवगओ य सादिव्वं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org