SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ उत्तराध्ययन-मूलसूत्रम्-१-२/४९ कथञ्चिदनित्यत्वप्रसङ्गाद्, अर्थाथप्रत्यायनापेक्षम्, एवं कृतसङ्केता बालादयोऽपि ततोऽर्थप्रतिपद्येरनिति नापोरुषेयागमसम्भव इति। ते च कीदृशा इत्याह-'यानि'ति परीषहान् 'भिक्षुः' उक्तनिरुक्तम्, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तथा परिव्रजन्' समन्ताद्विहरन् ‘स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीषहैरेव, 'नो' नैव विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नुयात्, पठन्ति च 'भिक्खायरियाए परिव्वयंतो'त्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन्, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहाः, उक्तं हि-"भिक्खाय-, रियाए बावीसं पिसहा उदीरिज्जंति"त्ति, शेषं प्राग्वत् ।। इत्युक्तः उद्देशः पृच्छामाह मू. (४९-२) कयरे तु खलु बावीसं प० जे० वृ. 'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति । मू.(४९-३) इमे खलु ते बावीसं प० जे० । वृ. 'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे 'ते' इति ये त्यया पुष्टाः, शेषं पूर्ववत्। मू.(४९-४) तंजहा दिगिंछापरिसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दसमसगपरीसहे ५ अचेलपरीसहे६ अरइपरीसहे७ इत्थीपरीसहे८ चरियापरीसहेर निसीहियापरीसहे १० सिज्जापरीसहे ११ अक्कोसपरीसह १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जलपरीसहे १८ सक्कारपुरकारपरीसहे १९ पन्नापरीसहे २० अन्नाणपरीसहे २१ सम्मत्तपरीसहे २२ वृ. 'तद्यथे'त्युदाहरणोपन्यासार्थ: दिगिञ्छापरीषहः १, पिपासापरीषह: २, शीतपरीषहः ३, उष्णपरीषहः ४,दंशमशकपरोषहः५, अचेलपरीषहः ६, अरतिपरीषह:७, स्त्रीपरीषहः ८, चर्यापरीषहः ९, नैषेधिकीपरीषहः १०, शय्यापरीषहः ११, आक्रोशपरीषहः १२, वधपरीषहः १३, याचनापरीषहः १४, अलाभपरीषह: १५, रोगपरीषहः १६, तृणस्पर्शपरीषहः १७, जल्लपरीषहः १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः २०, अज्ञानपरीषहः २१, दर्शनपरीषहः २२१ इह च 'दिगिछत्ति देशवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीषहः दिगिछापरीषहः?, एवं पातुमिच्छा पिपासा सैव परीषहः पिपासापरीषहः २, 'श्यैडस्पर्शे' इति नत्वाभावे शीतंशिशिर: स्पर्शस्तदेव परीषहः शीतपरीषहः ३, 'उघ दाह' इत्यस्यौणादिकनक्प्रत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव परीषहः उष्णपरीषह: ४, दशन्तीति दंशाः पचादित्वादच्, मारयितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः, यूकाधुपलक्षणं चैतत्, त एव परीषहो दंशमशकपरीषह: ५, चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्त्राशीलादिवत्, तदेव परीषहोऽचेलपरीषह: ६, रमणं रतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, सैव परीषह: अरतिपरीषह: ७, स्त्यायतेः स्तृणोतेर्वा टि टित्त्वाच्च For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy