SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२,[नि. ८६] सस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च ___ "नाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।" अथवा 'आमुसंतेन' आमृशता भगवत्पादारविन्दं भक्तिः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम, उक्तं हि "जहाहिअग्गी जलणं नमसे, नानाईमंतपयाहिसित्तं। एवायरियं उवचिट्ठएज्जाअ, अनंतनानोवगतोऽवि संतो!"त्ति, यद्वा-'आउसंतेनं'ति प्राकृतत्वेन तिङव्यत्ययादाजुषमाणेन- श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न तु यथाकथञ्चिद्, गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्य् वा सकाशात्, यथोच्यते-"परिसुट्ठियाण पासे सुणेइ सो विनयपरिभंसि"त्ति यदुक्तं भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषादपौरुषेयोगमात् स्वतो वा अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'पवेइय'त्ति सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः तपस्वी तेन, न तु "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ।।" इतिकणादादिपरकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्रयत्नाभावेनाऽऽख्यानायोगाद्, उक्तं च "वयणं न कायजोगाभावे न य सो अनादिसुद्धस्स। गहणम्मि य नो हेतू सत्थं अत्तागमो कहनु ।।" 'भगवंते'ति च समग्रज्ञानैश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यते _ 'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेदकः। यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः ।।' इति, तद्व्युदस्तं भवति, असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिपाणि भिन्ना हि भावनामुपयोगशक्त्यः, तत्र कोऽपि कस्यापि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, महावीरेण ति शक्रकृतनाम्ना चरमतीर्थकरेण, 'काश्यपेन' काश्यपगोत्रेण, अनेन नियतदेशकालकुलाभिधायिना सकलदेशकालकलाव्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत आख्यानस्यैयसम्भव इति, प्रविदिताः' प्रकर्षेणअ-स्वयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षिप्तो भवति, स्वयसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तिबुद्धियोगोऽपि कथं कञ्चनार्थं परिच्छेत्तु क्षमः स्याद् ?, एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, स्वयंसम्बुद्धत्वाद्भगवतः, नाप्यपौरुषेयागमात्, तस्यैवासम्भवाद्, अपौरुषेयत्वं ह्यागमस्स्य स्वरूपापेक्षमर्थप्रत्यायनापेक्षं वा ?, तत्र यदि स्वरूपापेक्षं तदा ताल्वादिकरणव्यापारं विनैवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात्, किञ्चिकरत्वे वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy