________________
७४
उत्तराध्ययन-मूलसूत्रम्-१-२/४८ यथा प्रस्तुतमेव इह खलु बावीसं परीसह'त्ति पृच्छा शिष्यस्य तु' गुरूद्दिष्टार्थविशेषजिज्ञासोविनेयस्य, तुः पुनः प्रक्रमाद्वचनं 'मुणितव्या' ज्ञातव्या, यथा 'कयरे खलु ते बावीसं परीसहा?' इति, निर्दशश्चेति निर्देश:-पुनः इमे खलु द्वाविंशतिः, परीषहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोनिर्वचनं निर्देश इत्यादुक्तं भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युक्तोदाहरणद्वयसूचनार्थं वैचित्र्यख्यापनार्थं चेति किञ्चिन्यूनगाथार्थः । इत्थं 'कुत' इत्यादिद्वादशद्वारवर्णनादवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति 'सूत्रस्पर्श' इति चरमद्वारस्य सूत्रालापकनिष्पन्ननिक्षेपस्य चावसरः, तच्चोभयं सूत्रे सति भवतीति सूत्रानुगमे सुत्रमुच्चारणीयं,
मू.(४९/१) 'सुयं मे आउसंतेणं भगवया एवमक्वायं-इह खलु बावीसं परीसहा समणेण भगवया महावीरेणं कासवेणं पवेइया जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिहन्नेजा।
वृ. श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया आयुष्मन्नि'ति शिष्यामन्त्रणं, क; कमेववाह ?, सुधर्मस्वामी जम्बूस्वामिनं, किं तत् श्रुतमित्याह-'तेने'ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रेश्वर्यादियुक्तेन, 'एव'मित्यमुना वक्ष्यमाणन्यायेन 'आख्यातं' सकलजन्तुभाषाभिव्याप्त्या कथितम्, उक्तं च
"देवा दैवीं नरा नारी, शबराश्चापि शाबरीम्।
तिर्यञ्चोऽपि हि तेरची, मेनिरे भगवद्गिरम्॥" किमत आह-'इहे'ति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा, तत इहैव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तं च
__ "कि एत्तो पावयरं सम्मं अनहिगयधम्मसब्भावो।
अन्नं कुदेसणाए ककृतरायमि पाडेइ॥"त्ति, 'मये'त्येननार्थतोऽनन्तरागमत्वमाह, भगवते'त्यनेन च वक्तुः केवलज्ञानादिगुणत्त्वसूचकेन प्रकृतवचसः प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वक्तुप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं, यदुक्तम्-'पुरुषप्रामाण्यमेवशब्दे दर्पणसंक्रान्तं मुखभिवोपचारादभिधीयते" 'तेन'ति च गुणवत्त्वप्रसिद्धयभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिह्येतेति, समुदायेन तु आत्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्-"आयरिभत्तिराएण विज्जा मन्ता य सिझंति" अथवा-'आउसंतेनं'ति भगवद्विशेषणम्, आयुष्मता भगवता, चीरजीविनेत्यर्थो, मङ्गलवचनमेतत्, यद्वा-'आयुष्मते'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यपि तीर्थनिकारादिदर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्
"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्।।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः।" एवं हि अनुन्मूलितनि:शेषरागादिदोषत्वात्तद्धचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा-'आवसंतेनं'ति मयेत्यस्य विशेषणं, तत आडिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वाद्गुरुकुलवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org